॥ वाग् यज्ञेन कल्पताम् ॥

See Listen and Chant

These Chanting are to Inspire You for, to Practice and Learn to Chanting Bhagavat Stotram. The occasional drift while highlighting is negligible and unavoidable because of the chanting styles. Some Chanting are collected from Internet, for educative and guided chanting practice and not to infringe any Copyrights.

Ready... Play...

Bhagavata Puranam C5S2

आग्नीध्रचरितम् आग्नीध्रात् पुर्वचित्त्यां नवपुत्रोत्पत्तिः । The history behind Agnidhra and nine children born to Poorvaciti etc.

॥ श्रीमद्भागवतमहापुराणम् ॥

ॐ श्रीमद्भागवते पञ्चमस्कन्धे अथ द्वितीयोऽध्यायः।
श्रीशुक उवाच।
एवं पितरि सम्प्रवृत्ते तदनुशासने वर्तमान आग्नीध्रो
जम्बूद्वीपौकसः प्रजा औरसवद्धर्मावेक्षमाणः
पर्यगोपायत्॥१॥
स च कदाचित्पितृलोककामः सुरवरवनिताक्रीडाचलद्रोण्यां
भगवन्तं विश्वसृजां पतिमाभृतपरिचर्योपकरण आत्मैकाग्र्येण
तपस्व्याराधयाम्बभूव॥२॥
तदुपलभ्य भगवानादिपुरुषः सदसि गायन्तीं पूर्वचित्तिं
नामाप्सरसमभियापयामास॥३॥
सा च तदाश्रमोपवनमतिरमणीयं विविधनिबिडविटपि-
विटपनिकरसंश्लिष्टपुरटलतारूढस्थलविहङ्गममिथुनैः
प्रोच्यमानश्रुतिभिः प्रतिबोध्यमानसलिलकुक्कुटकारण्डव-
कलहंसादिभिर्विचित्रमुपकूजितामलजलाशयकमलाकर-
मुपबभ्राम॥४॥
तस्याः सुललितगमनपदविन्यासगतिविलासायाश्चानुपदं
खणखणायमानरुचिरचरणाभरणस्वनमुपाकर्ण्य
नरदेवकुमारः समाधियोगेनामीलितनयननलिनमुकुल-
युगलमीषद्विकचय्य व्यचष्ट॥५॥
तामेवाविदूरे मधुकरीमिव सुमनस उपजिघ्रन्तीं
दिविजमनुजमनोनयनाह्लाददुघैर्गतिविहारव्रीडा-
विनयावलोकसुस्वराक्षरावयवैर्मनसि नृणां कुसुमायुधस्य
विदधतीं विवरं निजमुखविगलितामृतासवसहास-
भाषणामोदमदान्धमधुकरनिकरोपरोधेन द्रुतपदविन्यासेन
वल्गुस्पन्दनस्तनकलशकबरभाररशनां देवीं तदवलोकनेन
विवृतावसरस्य भगवतो मकरध्वजस्य वशमुपनीतो
जडवदिति होवाच॥६॥
का त्वं चिकीर्षसि च किं मुनिवर्य शैले
मायासि कापि भगवत्परदेवतायाः।
विज्ये बिभर्षि धनुषी सुहृदात्मनोऽर्थे
किं वा मृगान् मृगयसे विपिने प्रमत्तान्॥७॥
बाणाविमौ भगवतः शतपत्रपत्रौ
शान्तावपुङ्खरुचिरावतितिग्मदन्तौ।
कस्मै युयुङ्क्षसि वने विचरन् न विद्मः
क्षेमाय नो जडधियां तव विक्रमोऽस्तु॥८॥
शिष्या इमे भगवतः परितः पठन्ति
गायन्ति साम सरहस्यमजस्रमीशम्।
युष्मच्छिखाविलुलिताः सुमनोऽभिवृष्टीः
सर्वे भजन्त्यृषिगणा इव वेदशाखाः॥९॥
वाचं परं चरणपञ्जरतित्तिरीणां
ब्रह्मन्नरूपमुखरां श‍ृणवाम तुभ्यम्।
लब्धा कदम्बरुचिरङ्कविटङ्कबिम्बे
यस्यामलातपरिधिः क्व च वल्कलं ते॥१०॥
किं सम्भृतं रुचिरयोर्द्विज श‍ृङ्गयोस्ते
मध्ये कृशो वहसि यत्र दृशिः श्रिता मे।
पङ्कोऽरुणः सुरभिरात्मविषाण ईदृग्
येनाश्रमं सुभग मे सुरभीकरोषि॥११॥
लोकं प्रदर्शय सुहृत्तम तावकं मे
यत्रत्य इत्थमुरसावयवावपूर्वौ।
अस्मद्विधस्य मन उन्नयनौ बिभर्ति
बह्वद्भुतं सरसराससुधादिवक्त्रे॥१२॥
का वाऽऽत्मवृत्तिरदनाद्धविरङ्ग वाति
विष्णोः कलास्यनिमिषोन्मकरौ च कर्णौ।
उद्विग्नमीनयुगलं द्विजपङ्क्तिशोचि-
रासन्नभृङ्गनिकरं सर उन्मुखं ते॥१३॥
योऽसौ त्वया करसरोजहतः पतङ्गो
दिक्षु भ्रमन् भ्रमत एजयतेऽक्षिणी मे
मुक्तं न ते स्मरसि वक्रजटावरूथं
कष्टोऽनिलो हरति लम्पट एष नीवीम्॥१४॥
रूपं तपोधन तपश्चरतां तपोघ्नं
ह्येतत्तु केन तपसा भवतोपलब्धम्।
चर्तुं तपोऽर्हसि मया सह मित्र मह्यं
किं वा प्रसीदति स वै भवभावनो मे॥१५॥
न त्वां त्यजामि दयितं द्विजदेवदत्तं
यस्मिन् मनो दृगपि नो न वियाति लग्नम्।
मां चारुश‍ृङ्ग्यर्हसि नेतुमनुव्रतं ते
चित्तं यतः प्रतिसरन्तु शिवाः सचिव्यः॥१६॥
श्रीशुक उवाच।
इति ललनानुनयातिविशारदो ग्राम्यवैदग्ध्यया
परिभाषया तां विबुधवधूं विबुधमतिरधिसभा-
जयामास॥१७॥
सा च ततस्तस्य वीरयूथपतेर्बुद्धिशीलरूपवयः-
श्रियौदार्येण पराक्षिप्तमनास्तेन सहायुतायुत-
परिवत्सरोपलक्षणं कालं जम्बूद्वीपपतिना
भौमस्वर्गभोगान् बुभुजे॥१८॥
तस्यामु ह वा आत्मजान् स राजवर आग्नीध्रो
नाभिकिम्पुरुषहरिवर्षेलावृतरम्यकहिरण्मयकुरुभद्राश्व-
केतुमालसंज्ञान् नव पुत्रानजनयत्॥१९॥
सा सूत्वाथ सुतान् नवानुवत्सरं गृह एवापहाय
पूर्वचित्तिर्भूय एवाजं देवमुपतस्थे॥२०॥
आग्नीध्रसुतास्ते मातुरनुग्रहादौत्पत्तिकेनैव
संहननबलोपेताः पित्रा विभक्ता आत्मतुल्यनामानि
यथाभागं जम्बूद्वीपवर्षाणि बुभुजुः॥२१॥
आग्नीध्रो राजातृप्तः कामानामप्सरसमेवानुदिन-
मधिमन्यमानस्तस्याः सलोकतां श्रुतिभिरवारुन्ध
यत्र पितरो मादयन्ते॥२२॥
सम्परेते पितरि नव भ्रातरो मेरुदुहितॄर्मेरुदेवीं प्रतिरूपा-
मुग्रदंष्ट्रीं लतां रम्यां श्यामां नारीं भद्रां देववीतिमिति संज्ञा
नवोदवहन्॥२३॥
इति श्रीमद्भागवते महापुराणे पारमहंस्यां संहितायां
पञ्चमस्कन्धे आग्नीध्रवर्णनं नाम द्वितीयोऽध्यायः॥२॥

प्रियव्रतचरित्रम् । The historical story of Priyavrata. ...
गृहात्प्रव्रजितानां प्रचेतसां नारदोपदेशान्मुक्तिः । Prachetas who left home, obtained liberation from the discourse of Narada ...
दशप्रचेतसां भगवद्दर्शानं वरप्राप्तिश्च तेभ्यो मारिषागर्भाद्दक्षोत्पत्तिश्च । Sighting of Lord Vishnu by Dashaprachetas and getting boon, ...
पुरञ्जनोपाख्यानस्य तात्पर्यं नारदोपदेशः प्राचीनबर्हिषो मुक्तिश्च । The inner meaniing of Puranjana discourse and advise of ...
Loading story text...
https://www.krishnadhevalipi.org/wp-content/uploads/stories/txt/ra_story_words3094.txt
https://www.krishnadhevalipi.org/wp-content/uploads/stories/json/ra_story3094.json

Details of update

last updated - 23rd May, 2026