॥ वाग् यज्ञेन कल्पताम् ॥

See Listen and Chant

These Chanting are to Inspire You for, to Practice and Learn to Chanting Bhagavat Stotram. The occasional drift while highlighting is negligible and unavoidable because of the chanting styles. Some Chanting are collected from Internet, for educative and guided chanting practice and not to infringe any Copyrights.

Ready... Play...

Bhagavata Puranam C3S20

ब्रह्मकृतविविधसृटिवर्णनम् । Description of the various creation done by Lord Brahma etc.

॥ श्रीमद्भागवतमहापुराणम् ॥

ॐ श्रीमद्भागवते तृतीयस्कन्धे अथ विंशोऽध्यायः।
शौनक उवाच।
महीं प्रतिष्ठामध्यस्य सौते स्वायम्भुवो मनुः।
कान्यन्वतिष्ठद्द्वाराणि मार्गायावरजन्मनाम्॥१॥
क्षत्ता महाभागवतः कृष्णस्यैकान्तिकः सुहृत्।
यस्तत्याजाग्रजं कृष्णे सापत्यमघवानिति॥२॥
द्वैपायनादनवरो महित्वे तस्य देहजः।
सर्वात्मना श्रितः कृष्णं तत्परांश्चाप्यनुव्रतः॥३॥
किमन्वपृच्छन्मैत्रेयं विरजास्तीर्थसेवया।
उपगम्य कुशावर्त आसीनं तत्त्ववित्तमम्॥४॥
तयोः संवदतोः सूत प्रवृत्ता ह्यमलाः कथाः।
आपो गाङ्गा इवाघघ्नीर्हरेः पादाम्बुजाश्रयाः॥५॥
ता नः कीर्तय भद्रं ते कीर्तन्योदारकर्मणः।
रसज्ञः को नु तृप्येत हरिलीलामृतं पिबन्॥६॥
एवमुग्रश्रवाः पृष्टः ऋषिभिर्नैमिषायनैः।
भगवत्यर्पिताध्यात्मस्तानाह श्रूयतामिति॥७॥
सूत उवाच।
हरेर्धृतक्रोडतनोः स्वमायया
निशम्य गोरुद्धरणं रसातलात्।
लीलां हिरण्याक्षमवज्ञया हतं
सञ्जातहर्षो मुनिमाह भारतः॥८॥
विदुर उवाच।
प्रजापतिपतिः सृष्ट्वा प्रजासर्गे प्रजापतीन्।
किमारभत मे ब्रह्मन् प्रब्रूह्यव्यक्तमार्गवित्॥९॥
ये मरीच्यादयो विप्रा यस्तु स्वायम्भुवो मनुः।
ते वै ब्रह्मण आदेशात्कथमेतदभावयन्॥१०॥
सद्वितीयाः किमसृजन् स्वतन्त्रा उत कर्मसु।
आहोस्वित्संहताः सर्व इदं स्म समकल्पयन्॥११॥
मैत्रेय उवाच।
दैवेन दुर्वितर्क्येण परेणानिमिषेण च।
जातक्षोभाद्भगवतो महानासीद्गुणत्रयात्॥१२॥
रजःप्रधानान् महतस्त्रिलिङ्गो दैवचोदितात्।
जातः ससर्ज भूतादिर्वियदादीनि पञ्चशः॥१३॥
तानि चैकैकशः स्रष्टुमसमर्थानि भौतिकम्।
संहत्य दैवयोगेन हैममण्डमवासृजन्॥१४॥
सोऽशयिष्टाब्धिसलिले आण्डकोशो निरात्मकः।
साग्रं वै वर्षसाहस्रमन्ववात्सीत्तमीश्वरः॥१५॥
तस्य नाभेरभूत्पद्मं सहस्रार्कोरुदीधिति।
सर्वजीवनिकायौको यत्र स्वयमभूत्स्वराट्॥१६॥
सोऽनुविष्टो भगवता यः शेते सलिलाशये।
लोकसंस्थां यथापूर्वं निर्ममे संस्थया स्वया॥१७॥
ससर्जच्छायया विद्यां पञ्च पर्वाणमग्रतः।
तामिस्रमन्धतामिस्रं तमो मोहो महातमः॥१८॥
विससर्जात्मनः कायं नाभिनन्दंस्तमोमयम्।
जगृहुर्यक्षरक्षांसि रात्रिं क्षुत्तृट्समुद्भवाम्॥१९॥
क्षुत्तृड्भ्यामुपसृष्टास्ते तं जग्धुमभिदुद्रुवुः।
मा रक्षतैनं जक्षध्वमित्यूचुः क्षुत्तृडर्दिताः॥२०॥
देवस्तानाह संविग्नो मा मां जक्षत रक्षत।
अहो मे यक्षरक्षांसि प्रजा यूयं बभूविथ॥२१॥
देवताः प्रभया या या दीव्यन् प्रमुखतोऽसृजत्।
ते अहार्षुर्देवयन्तो विसृष्टां तां प्रभामहः॥२२॥
देवोऽदेवाञ्जघनतः सृजति स्मातिलोलुपान्।
त एनं लोलुपतया मैथुनायाभिपेदिरे॥२३॥
ततो हसन् स भगवानसुरैर्निरपत्रपैः।
अन्वीयमानस्तरसा क्रुद्धो भीतः परापतत्॥२४॥
स उपव्रज्य वरदं प्रपन्नार्तिहरं हरिम्।
अनुग्रहाय भक्तानामनुरूपात्मदर्शनम्॥२५॥
पाहि मां परमात्मंस्ते प्रेषणेनासृजं प्रजाः।
ता इमा यभितुं पापा उपाक्रामन्ति मां प्रभो॥२६॥
त्वमेकः किल लोकानां क्लिष्टानां क्लेशनाशनः।
त्वमेकः क्लेशदस्तेषामनासन्नपदां तव॥२७॥
सोऽवधार्यास्य कार्पण्यं विविक्ताध्यात्मदर्शनः।
विमुञ्चात्मतनुं घोरामित्युक्तो विमुमोच ह॥२८॥
तां क्वणच्चरणाम्भोजां मदविह्वललोचनाम्।
काञ्चीकलापविलसद्दुकूलच्छन्नरोधसम्॥२९॥
अन्योन्यश्लेषयोत्तुङ्गनिरन्तरपयोधराम्।
सुनासां सुद्विजां स्निग्द्धहासलीलावलोकनाम्॥३०॥
गूहन्तीं व्रीडयाऽऽत्मानं नीलालकवरूथिनीम्।
उपलभ्यासुरा धर्म सर्वे सम्मुमुहुः स्त्रियम्॥३१॥
अहो रूपमहो धैर्यमहो अस्या नवं वयः।
मध्ये कामयमानानामकामेव विसर्पति॥३२॥
वितर्कयन्तो बहुधा तां सन्ध्यां प्रमदाकृतिम्।
अभिसम्भाव्य विश्रम्भात्पर्यपृच्छन् कुमेधसः॥३३॥
कासि कस्यासि रम्भोरु को वार्थस्तेऽत्र भामिनि।
रूपद्रविणपण्येन दुर्भगान्नो विबाधसे॥३४॥
या वा काचित्त्वमबले दिष्ट्या सन्दर्शनं तव।
उत्सुनोषीक्षमाणानां कन्दुकक्रीडया मनः॥३५॥
नैकत्र ते जयति शालिनि पादपद्मं
घ्नन्त्या मुहुः करतलेन पतत्पतङ्गम्।
मध्यं विषीदति बृहत्स्तनभारभीतं
शान्तेव दृष्टिरमला सुशिखासमूहः॥३६॥
इति सायन्तनीं सन्ध्यामसुराः प्रमदायतीम्।
प्रलोभयन्तीं जगृहुर्मत्वा मूढधियः स्त्रियम्॥३७॥
प्रहस्य भावगम्भीरं जिघ्रन्त्यात्मानमात्मना।
कान्त्या ससर्ज भगवान् गन्धर्वाप्सरसां गणान्॥३८॥
विससर्ज तनुं तां वै ज्योत्स्नां कान्तिमतीं प्रियाम्।
त एव चाददुः प्रीत्या विश्वावसुपुरोगमाः॥३९॥
सृष्ट्वा भूतपिशाचांश्च भगवानात्मतन्द्रिणा।
दिग्वाससो मुक्तकेशान् वीक्ष्य चामीलयद्दृशौ॥४०॥
जगृहुस्तद्विसृष्टां तां जृम्भणाख्यां तनुं प्रभोः।
निद्रामिन्द्रियविक्लेदो यया भूतेषु दृश्यते।
येनोच्छिष्टान् धर्षयन्ति तमुन्मादं प्रचक्षते॥४१॥
ऊर्जस्वन्तं मन्यमान आत्मानं भगवानजः।
साध्यान् गणान् पितृगणान् परोक्षेणासृजत्प्रभुः॥४२॥
त आत्मसर्गं तं कायं पितरः प्रतिपेदिरे।
साध्येभ्यश्च पितृभ्यश्च कवयो यद्वितन्वते॥४३॥
सिद्धान् विद्याधरांश्चैव तिरोधानेन सोऽसृजत्।
तेभ्योऽददात्तमात्मानमन्तर्धानाख्यमद्भुतम्॥४४॥
स किन्नरान् किम्पुरुषान् प्रत्यात्म्येनासृजत्प्रभुः।
मानयन्नात्मनाऽऽत्मानमात्माभासं विलोकयन्॥४५॥
ते तु तज्जगृहू रूपं त्यक्तं यत्परमेष्ठिना।
मिथुनीभूय गायन्तस्तमेवोषसि कर्मभिः॥४६॥
देहेन वै भोगवता शयानो बहुचिन्तया।
सर्गेऽनुपचिते क्रोधादुत्ससर्ज ह तद्वपुः॥४७॥
येऽहीयन्तामुतः केशा अहयस्तेऽङ्ग जज्ञिरे।
सर्पाः प्रसर्पतः क्रूरा नागा भोगोरुकन्धराः॥४८॥
स आत्मानं मन्यमानः कृतकृत्यमिवात्मभूः।
तदा मनून् ससर्जान्ते मनसा लोकभावनान्॥४९॥
तेभ्यः सोऽसृजत्स्वीयं पुरं पुरुषमात्मवान्।
तान् दृष्ट्वा ये पुरा सृष्टाः प्रशशंसुः प्रजापतिम्॥५०॥
अहो एतज्जगत्स्रष्टः सुकृतं बत ते कृतम्।
प्रतिष्ठिताः क्रिया यस्मिन् साकमन्नमदामहे॥५१॥
तपसा विद्यया युक्तो योगेन सुसमाधिना।
ऋषीन् ऋषिर्हृषीकेशः ससर्जाभिमताः प्रजाः॥५२॥
तेभ्यश्चैकैकशः स्वस्य देहस्यांशमदादजः।
यत्तत्समाधियोगर्द्धितपोविद्याविरक्तिमत्॥५३॥
इति श्रीमद्भागवते महापुराणे पारमहंस्यां
संहितायां तृतीयस्कन्धे विंशोऽध्यायः॥२०॥

प्रियव्रतचरित्रम् । The historical story of Priyavrata. ...
गृहात्प्रव्रजितानां प्रचेतसां नारदोपदेशान्मुक्तिः । Prachetas who left home, obtained liberation from the discourse of Narada ...
दशप्रचेतसां भगवद्दर्शानं वरप्राप्तिश्च तेभ्यो मारिषागर्भाद्दक्षोत्पत्तिश्च । Sighting of Lord Vishnu by Dashaprachetas and getting boon, ...
पुरञ्जनोपाख्यानस्य तात्पर्यं नारदोपदेशः प्राचीनबर्हिषो मुक्तिश्च । The inner meaniing of Puranjana discourse and advise of ...
Loading story text...
https://www.krishnadhevalipi.org/wp-content/uploads/stories/txt/ra_story_words3048.txt
https://www.krishnadhevalipi.org/wp-content/uploads/stories/json/ra_story3048.json

Details of update

last updated - 23rd May, 2026