॥ वाग् यज्ञेन कल्पताम् ॥

See Listen and Chant

These Chanting are to Inspire You for, to Practice and Learn to Chanting Bhagavat Stotram. The occasional drift while highlighting is negligible and unavoidable because of the chanting styles. Some Chanting are collected from Internet, for educative and guided chanting practice and not to infringe any Copyrights.

Ready... Play...

Bhagavata Puranam C1S15

अर्जुनाद् यदुकुलसंहारं भगवतस्तिरोधानं च श्रुत्वा पाण्डवानां हिमालयदिशिमहाप्रयाणम् । Hearing from Arjuna about the destruction of Yadu Kula and ShriKrishna’s departure from this world, the king Yudhishtira along with brothers and wife made their final journey towards mountain Himalayas etc.

॥ श्रीमद्भागवतमहापुराणम् ॥

ॐ अथ श्रीमद्भागवते प्रथमस्कन्धे पञ्चदशोऽध्यायः।
सूत उवाच।
एवं कृष्णसखः कृष्णो भ्रात्रा राज्ञा विकल्पितः।
नानाशङ्कास्पदं रूपं कृष्णविश्लेषकर्शितः॥१॥
शोकेन शुष्यद्वदनहृत्सरोजो हतप्रभः।
विभुं तमेव अनुध्यायन्नाशक्नोत्प्रतिभाषितुम्॥२॥
कृच्छ्रेण संस्तभ्य शुचः पाणिना आमृज्य नेत्रयोः।
परोक्षेण समुन्नद्धप्रणयौत्कण्ठ्यकातरः॥३॥
सख्यं मैत्रीं सौहृदं च सारथ्यादिषु संस्मरन्।
नृपमग्रजमित्याह बाष्पगद्गदया गिरा॥४॥
अर्जुन उवाच।
वञ्चितोऽहं महाराज हरिणा बन्धुरूपिणा।
येन मेऽपहृतं तेजो देवविस्मापनं महत्॥५॥
यस्य क्षणवियोगेन लोको ह्यप्रियदर्शनः।
उक्थेन रहितो ह्येष मृतकः प्रोच्यते यथा॥६॥
यत्संश्रयाद्द्रुपदगेहमुपागतानां
राज्ञां स्वयंवरमुखे स्मरदुर्मदानाम्।
तेजो हृतं खलु मयाभिहतश्च मत्स्यः
सज्जीकृतेन धनुषाधिगता च कृष्णा॥७॥
यत्सन्निधावहमु खाण्डवमग्नयेऽदाम्
इन्द्रं च सामरगणं तरसा विजित्य।
लब्धा सभा मयकृताद्भुतशिल्पमाया
दिग्भ्योऽहरन् नृपतयो बलिमध्वरे ते॥८॥
यत्तेजसा नृपशिरोऽङ्घ्रिमहन् मखार्थे
आर्योऽनुजस्तव गजायुतसत्त्ववीर्यः।
तेनाहृताः प्रमथनाथमखाय भूपाः
यन्मोचितास्तदनयन् बलिमध्वरे ते॥९॥
पत्न्यास्तवाधिमखकॢप्तमहाभिषेक
श्लाघिष्ठचारुकबरं कितवैः सभायाम्।
स्पृष्टं विकीर्य पदयोः पतिताश्रुमुख्या
यस्तत्स्त्रियोऽकृतहतेशविमुक्तकेशाः॥१०॥
यो नो जुगोप वनमेत्य दुरन्तकृच्छ्रात्
दुर्वाससोऽरिविहितादयुताग्रभुग् यः।
शाकान्नशिष्टमुपयुज्य यतस्त्रिलोकीं
तृप्ताममंस्त सलिले विनिमग्नसङ्घः॥११॥
यत्तेजसाथ भगवान् युधि शूलपाणिर्विस्मापितः
सगिरिजोऽस्त्रमदान्निजं मे।
अन्येऽपि चाहममुनैव कलेवरेण
प्राप्तो महेन्द्रभवने महदासनार्धम्॥१२॥
तत्रैव मे विहरतो भुजदण्डयुग्मं
गाण्डीवलक्षणमरातिवधाय देवाः।
सेन्द्राः श्रिता यदनुभावितमाजमीढ
तेनाहमद्य मुषितः पुरुषेण भूम्ना॥१३॥
यद्बान्धवः कुरुबलाब्धिमनन्तपारमेको
रथेन ततरेऽहमतार्यसत्त्वम्।
प्रत्याहृतं बहुधनं च मया परेषां
तेजास्पदं मणिमयं च हृतं शिरोभ्यः॥१४॥
यो भीष्मकर्णगुरुशल्यचमूष्वदभ्र
राजन्यवर्यरथमण्डलमण्डितासु।
अग्रेचरो मम विभो रथयूथपानाम्
आयुर्मनांसि च दृशा सह ओज आर्च्छत्॥१५॥
यद्दोष्षु मा प्रणिहितं गुरुभीष्मकर्ण
नप्तृत्रिगर्तशलसैन्धवबाह्लिकाद्यैः।
अस्त्राण्यमोघमहिमानि निरूपितानिनो
पस्पृशुर्नृहरिदासमिवासुराणि॥१६॥
सौत्ये वृतः कुमतिनाऽऽत्मद ईश्वरो मे
यत्पादपद्मम् अभवाय भजन्ति भव्याः।
मां श्रान्तवाहमरयो रथिनो भुविष्ठं
न प्राहरन् यदनुभावनिरस्तचित्ताः॥१७॥
नर्माण्युदाररुचिरस्मितशोभितानि
हे पार्थ हेऽर्जुन सखे कुरुनन्दनेति।
सञ्जल्पितानि नरदेव हृदिस्पृशानि
स्मर्तुर्लुठन्ति हृदयं मम माधवस्य॥१८॥
शय्यासनाटनविकत्थन भोजनादिष्वैक्याद्वयस्य
ऋतवानिति विप्रलब्धः।
सख्युः सखेव पितृवत्तनयस्य सर्वं
सेहे महान् महितया कुमतेरघं मे॥१९॥
सोऽहं नृपेन्द्र रहितः पुरुषोत्तमेन
सख्या प्रियेण सुहृदा हृदयेन शून्यः।
अध्वन्युरुक्रमपरिग्रहमङ्ग रक्षन्
गोपैरसद्भिरबलेव विनिर्जितोऽस्मि॥२०॥
तद्वै धनुस्त इषवः स रथो हयास्ते
सोऽहं रथी नृपतयो यत आनमन्ति।
सर्वं क्षणेन तदभूदसदीशरिक्तं
भस्मन् हुतं कुहकराद्धमिवोप्तमूष्याम्॥२१॥
राजंस्त्वयानुपृष्टानां सुहृदां नः सुहृत्पुरे।
विप्रशापविमूढानां निघ्नतां मुष्टिभिर्मिथः॥२२॥
वारुणीं मदिरां पीत्वा मदोन्मथितचेतसाम्।
अजानतामिवान्योन्यं चतुःपञ्चावशेषिताः॥२३॥
प्रायेणैतद्भगवत ईश्वरस्य विचेष्टितम्।
मिथो निघ्नन्ति भूतानि भावयन्ति च यन्मिथः॥२४॥
जलौकसां जले यद्वन्महान्तोऽदन्त्यणीयसः।
दुर्बलान् बलिनो राजन् महान्तो बलिनो मिथः॥२५॥
एवं बलिष्ठैर्यदुभिर्महद्भिरितरान् विभुः।
यदून् यदुभिरन्योन्यं भूभारान् सञ्जहार ह॥२६॥
देशकालार्थयुक्तानि हृत्तापोपशमानि च।
हरन्ति स्मरतश्चित्तं गोविन्दाभिहितानि मे॥२७॥
सूत उवाच।
एवं चिन्तयतो जिष्णोः कृष्णपादसरोरुहम्।
सौहार्देनातिगाढेन शान्ताऽऽसीद्विमला मतिः॥२८॥
वासुदेवाङ्घ्र्यनुध्यानपरिबृंहितरंहसा।
भक्त्या निर्मथिताशेषकषायधिषणोऽर्जुनः॥२९॥
गीतं भगवता ज्ञानं यत्तत्सङ्ग्राममूर्धनि।
कालकर्मतमोरुद्धं पुनरध्यगमत्विभुः॥३०॥
विशोको ब्रह्मसम्पत्त्या सञ्च्छिन्नद्वैतसंशयः।
लीनप्रकृतिनैर्गुण्याद् अलिङ्गत्वादसम्भवः॥३१॥
निशम्य भगवन्मार्गं संस्थां यदुकुलस्य च।
स्वःपथाय मतिं चक्रे निभृतात्मा युधिष्ठिरः॥३२॥
पृथाप्यनुश्रुत्य धनञ्जयोदितं
नाशं यदूनां भगवद्गतिं च ताम्।
एकान्तभक्त्या भगवत्यधोक्षजे
निवेशितात्मोपरराम संसृतेः॥३३॥
ययाहरद्भुवो भारं तां तनुं विजहावजः।
कण्टकं कण्टकेनेव द्वयं चापीशितुः समम्॥३४॥
यथा मत्स्यादिरूपाणि धत्ते जह्याद्यथा नटः।
भूभारः क्षपितो येन जहौ तच्च कलेवरम्॥३५॥
यदा मुकुन्दो भगवानिमां महीं
जहौ स्वतन्वा श्रवणीयसत्कथः।
तदा हरेवाप्रतिबुद्धचेतसाम्
अधर्महेतुः कलिरन्ववर्तत॥३६॥
युधिष्ठिरस्तत्परिसर्पणं बुधः
पुरे च राष्ट्रे च गृहे तथाऽऽत्मनि।
विभाव्य लोभानृतजिह्म हिंसनाद्यधर्मचक्रं
गमनाय पर्यधात्॥३७॥
स्वराट् पौत्रं विनयिनम् आत्मनः सुसमं गुणैः।
तोयनीव्याः पतिं भूमेरभ्यषिञ्चद्गजाह्वये॥३८॥
मथुरायां तथा वज्रं शूरसेनपतिं ततः।
प्राजापत्यां निरूप्येष्टिमग्नीनपिबदीश्वरः॥३९॥
विसृज्य तत्र तत्सर्वं दुकूलवलयादिकम्।
निर्ममो निरहङ्कारः सञ्च्छिन्नाशेषबन्धनः॥४०॥
वाचं जुहाव मनसि तत्प्राण इतरे च तम्।
मृत्यावपानं सोत्सर्गं तं पञ्चत्वे ह्यजोहवीत्॥४१॥
त्रित्वे हुत्वाथ पञ्चत्वं तच्चैकत्वेऽजुहोन्मुनिः।
सर्वमात्मन्यजुहवीद्ब्रह्मण्यात्मानमव्यये॥४२॥
चीरवासा निराहारो बद्धवाङ्मुक्तमूर्धजः।
दर्शयन्नात्मनो रूपं जडोन्मत्तपिशाचवत्॥४३॥
अनवेक्षमाणो निरगाद् अश‍ृण्वन् बधिरो यथा।
उदीचीं प्रविवेशाशां गतपूर्वां महात्मभिः।
हृदि ब्रह्म परं ध्यायन् आवर्तेत यतो गतः॥४४॥
सर्वे तमनुनिर्जग्मुर्भ्रातरः कृतनिश्चयाः।
कलिनाधर्ममित्रेण दृष्ट्वा स्पृष्टाः प्रजा भुवि॥४५॥
ते साधुकृतसर्वार्था ज्ञात्वाऽऽत्यन्तिकमात्मनः।
मनसा धारयामासुर्वैकुण्ठ चरणाम्बुजम्॥४६॥
तद्ध्यानोद्रिक्तया भक्त्या विशुद्धधिषणाः परे।
तस्मिन् नारायणपदे एकान्तमतयो गतिम्॥४७॥
अवापुर्दुरवापां ते असद्भिर्विषयात्मभिः।
विधूतकल्मषा स्थाने विरजेनात्मनैव हि॥४८॥
विदुरोऽपि परित्यज्य प्रभासे देहमात्मवान्।
कृष्णावेशेन तच्चित्तः पितृभिः स्वक्षयं ययौ॥४९॥
द्रौपदी च तदाऽऽज्ञाय पतीनामनपेक्षताम्।
वासुदेवे भगवति ह्येकान्तमतिराप तम्॥५०॥
यः श्रद्धयैतद्भगवत्प्रियाणां
पाण्डोः सुतानामिति सम्प्रयाणम्।
श‍ृणोत्यलं स्वस्त्ययनं पवित्रं
लब्ध्वा हरौ भक्तिमुपैति सिद्धिम्॥५१॥
इति श्रीमद्भागवते महापुराणे पारमहंस्यां संहितायां
प्रथमस्कन्धे पाण्डवस्वर्गारोहणं नाम पञ्चदशोऽध्यायः॥१५॥

प्रियव्रतचरित्रम् । The historical story of Priyavrata. ...
गृहात्प्रव्रजितानां प्रचेतसां नारदोपदेशान्मुक्तिः । Prachetas who left home, obtained liberation from the discourse of Narada ...
दशप्रचेतसां भगवद्दर्शानं वरप्राप्तिश्च तेभ्यो मारिषागर्भाद्दक्षोत्पत्तिश्च । Sighting of Lord Vishnu by Dashaprachetas and getting boon, ...
पुरञ्जनोपाख्यानस्य तात्पर्यं नारदोपदेशः प्राचीनबर्हिषो मुक्तिश्च । The inner meaniing of Puranjana discourse and advise of ...
Loading story text...
https://www.krishnadhevalipi.org/wp-content/uploads/stories/txt/ra_story_words3014.txt
https://www.krishnadhevalipi.org/wp-content/uploads/stories/json/ra_story3014.json

Details of update

last updated - 23rd May, 2026