॥अथ अष्टमोऽध्यायः॥
॥प्रथमः पादः॥
सर्वस्य द्वे।
तस्य परमाम्रेडितम्।
अनुदात्तं च।
नित्यवीप्सयोः।
परेर्वर्जने।
प्रसमुपोदः पादपूरणे।
उपर्यध्यधसः सामीप्ये।
वाक्यादेरामन्त्रितस्या सूयासम्मति कोपकुत्सनभर्त्सनेषु।
एकं बहुव्रीहिवत्।
आबाधे च।
कर्मधारयवत् उत्तरेषु।
प्रकारे गुणवचनस्य।
अकृच्छ्रे प्रियसुखयोरन्यतरस्याम्।
यथास्वे यथायथम्।
द्वन्द्वं रहस्यमर्यादावचनव्युत्क्रमण यज्ञपात्रप्रयोगाभिव्यक्तिषु।
पदस्य।
पदात्।
अनुदात्तं सर्वमपादादौ।
आमन्त्रितस्य च।
युष्मदस्मदोः षष्ठीचतुर्थीद्वितीयास्थयोर्वान्नावौ।
बहुवचनस्य वस्नसौ।
तेमयावेकवचनस्य।
त्वामौ द्वितीयायाः।
न चवाहाहैवयुक्ते।
पश्यार्थैश्चानालोचने।
सपूर्वायाः प्रथमाया विभाषा।
तिङो गोत्रादीनि कुत्सनाभीक्ष्ण्ययोः।
तिङ्ङतिङः।
न लुट्।
निपातैर्यद्यदिहन्त कुविन्नेच्चेच्चङ्क च्चिद्यत्रयुक्तम्।
नह प्रत्यारम्भे।
सत्यं प्रश्ने।
अङ्गाप्रातिलोम्ये।
हि च।
छन्दस्यनेकमपि साकाङ्क्षम्।
यावद्यथाभ्याम्।
पूजायां नानन्तरम्।
उपसर्गव्यपेतं च।
तुपश्यपश्यताहैः पूजायाम्।
अहो च।
शेषे विभाषा।
पुरा च परीप्सायाम्।
नन्वित्यनुज्ञैषणायाम्।
किं क्रियाप्रश्नेऽनुपसर्ग मप्रतिषिद्धम्।
लोपे विभाषा।
एहिमन्ये प्रहासे लृट्।
जात्वपूर्वम्।
किम्वृत्तं च चिदुत्तरम्।
आहो उताहो चानन्तरम्।
शेषे विभाषा।
गत्यर्थलोटा लृण्न चेत् कारकं सर्वान्यत्।
लोट् च।
विभाषितं सोपसर्गमनुत्तमम्।
हन्त च।
आम एकान्तरमामन्त्रितमनन्तिके।
यद्धितुपरं छन्दसि।
चनचिदिवगोत्रादि तद्धिताम्रेडितेष्वगतेः।
चादिषु च।
चवायोगे प्रथमा।
हेति क्षियायाम्।
अहेति विनियोगे च।
चाहलोप एवेत्यवधारणम्।
चादिलोपे विभाषा।
वैवावेति च च्छन्दसि।
एकान्याभ्यां समर्थाभ्याम्।
यद्वृत्तान्नित्यम्।
पूजनात् पूजितमनुदात्तम् काष्ठादिभ्यः।
सगतिरपि तिङ्।
कुत्सने च सुप्यगोत्रादौ।
गतिर्गतौ।
तिङि चोदात्तवति।
आमन्त्रितं पूर्वम् अविद्यमानवत्।
नामन्त्रिते समानाधिकरणे सामान्यवचनम्।
विभाषितं विशेषवचने।
॥इति प्रथमः पादः॥