॥ वाग् यज्ञेन कल्पताम् ॥

See Listen and Chant

These Chanting are to Inspire You for, to Practice and Learn to Chanting Bhagavat Stotram. The occasional drift while highlighting is negligible and unavoidable because of the chanting styles. Some Chanting are collected from Internet, for educative and guided chanting practice and not to infringe any Copyrights.

Ready... Play...

Panini Ashtadhyayi Sutra C6S3

These entire Panini Sutra of all the eight Chapters and four Sections in each chapter, is traditionally chanted and by-heart memorized. This page facilitate you to listen, see and learn to memorize.

॥ पाणिनीय अष्टाध्यायी ॥

॥अथ तृतीयः पादः॥
अलुगुत्तरपदे।
पञ्चम्याः स्तोकादिभ्यः।
ओजःसहोऽम्भस्तमसः तृतीयायाः।
मनसः संज्ञायाम्।
आज्ञायिनि च।
आत्मनश्च पूरणे।
वैयाकरणाख्यायां चतुर्थ्याः।
परस्य च।
हलदन्तात् सप्तम्याः संज्ञायाम्।
कारनाम्नि च प्राचां हलादौ।
मध्याद्गुरौ।
अमूर्धमस्तकात् स्वाङ्गादकामे।
बन्धे च विभाषा।
तत्पुरुषे कृति बहुलम्।
प्रावृट्शरत्कालदिवां जे।
विभाषा वर्षक्षरशरवरात्।
घकालतनेषु कालनाम्नः।
शयवासवासिष्वकालात्।
नेन्सिद्धबध्नातिषु।
स्थे च भाषायाम्।
षष्ठ्या आक्रोशे।
पुत्रेऽन्यतरस्याम्।
ऋतो विद्यायोनिसम्बन्धेभ्यः।
विभाषा स्वसृपत्योः।
आनङ् ऋतो द्वंद्वे।
देवताद्वंद्वे च।
ईदग्नेः सोमवरुणयोः।
इद्वृद्धौ।
दिवो द्यावा।
दिवसश्च पृथिव्याम्।
उषासोषसः।
मातरपितरावुदीचाम्।
पितरामातरा च च्छन्दसि।
स्त्रियाः पुंवद्भाषितपुंस्कादनूङ् समानाधिकरणे स्त्रियामपूरणीप्रियाऽऽदिषु।
तसिलादिष्वाकृत्वसुचः।
क्यङ्मानिनोश्च।
न कोपधायाः।
संज्ञापूरण्योश्च।
वृद्धिनिमित्तस्य च तद्धितस्यारक्तविकारे।
स्वाङ्गाच्चेतोऽमानिनि।
जातेश्च।
पुंवत् कर्मधारयजातीयदेशीयेषु।
घरूपकल्पचेलड्ब्रुवगोत्रमतहतेषु ङ्योऽनेकाचो ह्रस्वः।
नद्याः शेषस्यान्यतरस्याम्।
उगितश्च।
आन्महतः समानाधिकरणजातीययोः।
द्व्यष्टनः संख्यायामबहुव्रीह्यशीत्योः।
त्रेस्त्रयः।
विभाषा चत्वारिंशत्प्रभृतौ सर्वेषाम्।
हृदयस्य हृल्लेखयदण्लासेषु।
वा शोकष्यञ्रोगेषु।
पादस्य पदाज्यातिगोपहतेषु।
पद् यत्यतदर्थे।
हिमकाषिहतिषु च।
ऋचः शे।
वा घोषमिश्रशब्देषु।
उदकस्योदः संज्ञायाम्।
पेषंवासवाहनधिषु च।
एकहलादौ पूरयितव्येऽन्यतरस्याम्।
मन्थौदनसक्तुबिन्दु वज्रभारहारवीवधगाहेषु च।
इको ह्रस्वोऽङ्यो गालवस्य।
एक तद्धिते च।
ङ्यापोः संज्ञाछन्दसोर्बहुलम्।
त्वे च।
इष्टकेषीकामालानां चिततूलभारिषु।
खित्यनव्ययस्य।
अरुर्द्विषदजन्तस्य मुम्।
इच एकाचोऽम्प्रत्ययवच्च।
वाचंयमपुरंदरौ च।
कारे सत्यागदस्य।
श्येनतिलस्य पाते ञे।
रात्रेः कृति विभाषा।
नलोपो नञः।
तस्मान्नुडचि।
नभ्राण्नपान्नवेदानासत्या नमुचिनकुलनख नपुंसकनक्षत्रनक्रनाकेषु प्रकृत्या।
एकादिश्चैकस्य चादुक्।
नगोऽप्राणिष्वन्यतरस्याम्।
सहस्य सः संज्ञायाम्।
ग्रन्थान्ताधिके च।
द्वितीये चानुपाख्ये।
अव्ययीभावे चाकाले।
वोपसर्जनस्य।
प्रकृत्याऽऽशिष्यगोवत्सहलेषु।
समानस्य छन्दस्यमूर्धप्रभृत्युदर्केषु।
ज्योतिर्जनपदरात्रिनाभि नामगोत्ररूपस्थानवर्ण वयोवचनबन्धुषु।
चरणे ब्रह्मचारिणि।
तीर्थे ये।
विभाषोदरे।
दृग्दृशवतुषु।
इदङ्किमोरीश्की।
आ सर्वनाम्नः।
विष्वग्देवयोश्च टेरद्र्यञ्चतौ वप्रत्यये।
समः समि।
तिरसस्तिर्यलोपे।
सहस्य सध्रिः।
सध मादस्थयोश्छन्दसि।
द्व्यन्तरुपसर्गेभ्योऽप ईत्।
ऊदनोर्देशे।
अषष्ठ्यतृतीयास्थस्यान्यस्य दुगाशिराशाऽऽस्थाऽऽस्थितोत्सुकोति कारकरागच्छेषु।
अर्थे विभाषा।
कोः कत् तत्पुरुषेऽचि।
रथवदयोश्च।
तृणे च जातौ।
का पथ्यक्षयोः।
ईषदर्थे।
विभाषा पुरुषे।
कवं चोष्णे।
पथि च च्छन्दसि।
पृषोदरादीनि यथोपदिष्टम्।
संख्याविसायपूर्वस्याह्न स्याहन्नन्यतरस्यां ङौ।
ढ्रलोपे पूर्वस्य दीर्घोऽणः।
सहिवहोरोदवर्णस्य।
साढ्यै साढ्वा साढेति निगमे।
संहितायाम्।
कर्णे लक्षणस्याविष्टाष्टपञ्च मणिभिन्न छिन्नछिद्रस्रुवस्वस्तिकस्य।
नहिवृतिवृषिव्यधि रुचिसहितनिषु क्वौ।
वनगिर्योः संज्ञायां कोटरकिंशुलकादीनाम्।
वले।
मतौ बह्वचोऽनजिरादीनाम्।
शरादीनां च।
इको वहेऽपीलोः।
उपसर्गस्य घञ्यमनुष्ये बहुलम्।
इकः काशे।
दस्ति।
अष्टनः संज्ञायाम्।
छन्दसि च।
चितेः कपि।
विश्वस्य वसुराटोः।
नरे संज्ञायाम्।
मित्रे चर्षौ।
मन्त्रे सोमाश्वेन्द्रियविश्वदेव्यस्य मतौ।
ओषधेश्च विभक्तावप्रथमायाम्।
ऋचि तुनुघमक्षुतङ्कुत्रोरुष्याणाम्।
इकः सुञि।
द्व्यचोऽतस्तिङः।
निपातस्य च।
अन्येषामपि दृश्यते।
चौ।
सम्प्रसारणस्य।
॥इति तृतीयः पादः॥

प्रियव्रतचरित्रम् । The historical story of Priyavrata. ...
गृहात्प्रव्रजितानां प्रचेतसां नारदोपदेशान्मुक्तिः । Prachetas who left home, obtained liberation from the discourse of Narada ...
दशप्रचेतसां भगवद्दर्शानं वरप्राप्तिश्च तेभ्यो मारिषागर्भाद्दक्षोत्पत्तिश्च । Sighting of Lord Vishnu by Dashaprachetas and getting boon, ...
पुरञ्जनोपाख्यानस्य तात्पर्यं नारदोपदेशः प्राचीनबर्हिषो मुक्तिश्च । The inner meaniing of Puranjana discourse and advise of ...
Loading story text...
https://www.krishnadhevalipi.org/wp-content/uploads/stories/txt/ra_story_words2073.txt
https://www.krishnadhevalipi.org/wp-content/uploads/stories/json/ra_story2073.json

Details of update

last updated - 23rd May, 2026