॥ वाग् यज्ञेन कल्पताम् ॥

See Listen and Chant

These Chanting are to Inspire You for, to Practice and Learn to Chanting Bhagavat Stotram. The occasional drift while highlighting is negligible and unavoidable because of the chanting styles. Some Chanting are collected from Internet, for educative and guided chanting practice and not to infringe any Copyrights.

Ready... Play...

Amara Kosha Avyaya Varga

Amara Kosha is one of the most popular Sanaskrit kosha which is by-heart memorized and this page will facilitate you to learn, listen, see and chant. There are about 25 Varga and each varga is shown in individual page.

॥ अमरकोषः ॥

॥अथ अव्ययवर्गः॥
चिराय चिररात्राय चिरस्याऽऽद्याश्चिराऽर्थकाः।
मुहुः पुनः पुनः शश्वत् अभीक्ष्णमसकृत् समाः॥
स्राग् झटित्यञ्जसाऽह्नाय द्राङ् मङ्क्षु सपदि द्रुते।
बलवत्सुष्ठु किमुत स्वत्यतीव च निर्भरे॥
पृथग् विनाऽन्तरेणर्ते हिरुङ् नाना च वर्जने।
यत् तद् यतस्ततो हेतौ असाकल्ये तु चिच् चन॥
कदाचिज्जातु सार्धं तु साकं सत्रा समं सह।
आनुकूल्याऽर्थकं प्राध्वं व्यर्थके तु वृथा मुधा॥
आहो उताहो किमुत विकल्पे किं किमूत च।
तु हि च स्म ह वै पादपूरणे पूजने स्वति॥
दिवाऽह्नीत्यथ दोषा च नक्तं च रजनाविति।
तिर्यगर्थे साचि तिरोऽप्यथ संबोधनाऽर्थकाः॥
स्युः प्याट् पाडङ्ग हे है भोः समया निकषा हिरुक्।
अतर्किते तु सहसा स्यात् पुरः पुरतोऽग्रतः॥
स्वाहा देवहविर्दाने श्रौषट् वौषट् वषट् स्वधा।
किञ्चिदीषन् मनागल्पे प्रेत्याऽमुत्र भवाऽन्तरे॥
व वा यथा तथेवैवं साम्येऽहो ही च विस्मये।
मौने तु तूष्णीं तूष्णीकां सद्यः सपदि तत्क्षणे॥
दिष्ट्या समुपजोषं चेत् यानन्देऽथाऽन्तरेऽन्तरा।
अन्तरेण च मध्ये स्युः प्रसह्य तु हठार्थकम्॥
युक्ते द्वे सांप्रतं स्थाने अभीक्ष्णं शश्वदनारते।
अभावे नह्य नो नाऽपि मा स्म माऽलं च वारणे॥
पक्षाऽन्तरे चेद्यदि च तत्त्वे त्वद्धाऽञ्जसा द्वयम्।
प्राकाश्ये प्रादुराविः स्यात् ओमेवं परमं मते॥
समन्ततस्तु परितः सर्वतो विष्वगित्यपि।
अकामाऽनुमतौ काममसूयोपगमेस्तु च॥
ननु च स्याद्विरोधोक्तौ कश्चित् कामप्रवेदने।
निष्षमं दुष्षमं गर्ह्ये यथास्वं तु यथायथम्॥
मृषा मिथ्या च वितथे यथार्थं तु यथातथम्।
स्युरेवं तु पुनर्वै वेत्यवधारणवाचकाः॥
प्रागतीताऽर्थकं नूनमवश्यं निश्चये द्वयम्।
संवद् वर्षेऽवरे त्वर्वागामेवं स्वयमात्मना॥
अल्पे नीचैर्महत्युच्चैः प्रायो भूम्न्यद्रुते शनैः।
सना नित्ये बहिर्बाह्ये स्माऽतीतेऽस्तमदर्शने॥
अस्ति सत्वे रुषोक्तावु ऊं प्रश्नेऽनुनये त्वयि।
हुं तर्के स्यादुषा रात्रेः अवसानेनमो नतौ॥
पुनरर्थेऽङ्ग निन्दायां दुष्ठु सुष्ठु प्रशंसने।
सायं साये प्रगे प्रातः प्रभाते निकषाऽन्तिके॥
परुत् परार्यैषमोऽब्दे पूर्वे पूर्वतरे यति।
अद्यऽत्राऽह्न्यथ पूर्वेऽह्नीत्यादौ पूर्वोत्तराऽपरात्॥
तथाऽधराऽन्याऽन्यतरेतरात्पूर्वेद्युराऽऽदयः।
उभयद्युश्चोभयेद्युः परेत्वह्नि परेद्यवि॥
ह्यो गतेऽनागतेऽह्नि श्वः परश्वस्तु परेऽहनि।
तदा तदानीं युगपद् एकदा सर्वदा सदा॥
एतर्हि सम्प्रतीऽदानीम् अधुना साम्प्रतं तथा।
दिग्देशकाले पूर्वाऽऽदौ प्रागुदक्प्रत्यगाऽऽदयः॥
॥इत्यव्ययवर्गः॥

प्रियव्रतचरित्रम् । The historical story of Priyavrata. ...
गृहात्प्रव्रजितानां प्रचेतसां नारदोपदेशान्मुक्तिः । Prachetas who left home, obtained liberation from the discourse of Narada ...
दशप्रचेतसां भगवद्दर्शानं वरप्राप्तिश्च तेभ्यो मारिषागर्भाद्दक्षोत्पत्तिश्च । Sighting of Lord Vishnu by Dashaprachetas and getting boon, ...
पुरञ्जनोपाख्यानस्य तात्पर्यं नारदोपदेशः प्राचीनबर्हिषो मुक्तिश्च । The inner meaniing of Puranjana discourse and advise of ...
Loading story text...
https://www.krishnadhevalipi.org/wp-content/uploads/stories/txt/ra_story_words1923.txt
https://www.krishnadhevalipi.org/wp-content/uploads/stories/json/ra_story1923.json

Details of update

last updated - 23rd May, 2026