॥ वाग् यज्ञेन कल्पताम् ॥

See Listen and Chant

These Chanting are to Inspire You for, to Practice and Learn to Chanting Bhagavat Stotram. The occasional drift while highlighting is negligible and unavoidable because of the chanting styles. Some Chanting are collected from Internet, for educative and guided chanting practice and not to infringe any Copyrights.

Ready... Play...

Amara Kosha Sankirna Varga

Amara Kosha is one of the most popular Sanaskrit kosha which is by-heart memorized and this page will facilitate you to learn, listen, see and chant. There are about 25 Varga and each varga is shown in individual page.

॥ अमरकोषः ॥

॥अथ संकीर्णवर्गः॥
प्रकृतिप्रत्ययाऽर्थाऽऽद्यैः संकीर्णे लिङ्गमुन्नयेत्।
कर्म क्रिया तत्सातत्ये गम्ये स्युरपरस्पराः॥
साकल्याऽऽसंगवचने पारायणतुरायणे।
यदृच्छा स्वैरिता हेतुशून्या त्वास्था विलक्षणम्॥
शमथस्तु शमः शान्तिः दान्तिस्तु दमथो दमः।
अवदानं कर्म वृत्तं काम्यदानं प्रवारणम्॥
वशक्रिया संवननं मूलकर्म तु कार्मणम्।
विधूननं विधुवनं तर्पणं प्रीणनाऽवनम्॥
पर्याप्तिः स्यात् परित्राणं हस्तवारणमित्यपि।
सेवनं सीवनं स्यूतिः विदरः स्फुटनं भिदा॥
आक्रोशनमभीषङ्गः संवेदो वेदना न ना।
संमूर्च्छनमभिव्याप्तिः याच्ञा भिक्षाऽर्थनाऽर्दना॥
वर्धनं छेदनेऽथ द्वे आनन्दनसभाजने।
आप्रच्छन्नमथाऽऽम्नायः सम्प्रदायः क्षये क्षिया॥
ग्रहे ग्राहो वशः कान्तौ रक्ष्णस्त्राणे रणः क्वणे।
व्यधो वेधे पचा पाके हवो हूतौ वरो वृत्तौ॥
ओषः प्लोषे नयो नाये ज्यानिर्जीर्णौ भ्रमो भ्रमौ।
स्फातिर्वृद्धौ प्रथा ख्यातौ स्पृष्टिः पृक्तौ स्नवः स्रवे॥
एधा समृद्धौ स्फुरणे स्फुरणा प्रमितौ तमा।
प्रसूतिः प्रसवे श्च्योते प्राघारः क्लमथः क्लमे॥
उत्कर्षोऽतिशये संधिः श्लेषे विषय आश्रये।
क्षिपायां क्षेपणं गीर्णिः गिरौ गुरणमुद्यमे॥
उन्नाय उन्नये श्रायः श्रयणे जयने जयः।
निगादो निगदे मादः मद उद्वेग उद्भ्रमे॥
विमर्दनं परिमलः अभ्युपपत्तिरनुग्रहः।
निग्रहस्तद्विरुद्धः स्यात् अभियोगस्त्वभिग्रहः॥
मुष्टिबन्धस्तु संग्राहः डिम्बे डमरविप्लवौ।
बन्धनं प्रसितिश्चारः स्पर्शः स्प्रष्टोपतप्तरि॥
निकारो विप्रकारः स्यात् आकारस्त्विङ्ग इङ्गितम्।
परिणामो विकारे द्वे समे विकृतिविक्रिये॥
अपहारस्त्वपचयः समाहारः समुच्चयः।
प्रत्याहार उपादानं विहारस्तु परिक्रमः॥
अभिहारोऽभिग्रहणं निर्हारोऽभ्यवकर्षणम्।
अनुहारोऽनुकारः स्यात् अर्थस्याऽपगमे व्ययः॥
प्रवाहस्तु प्रवृत्तिः स्यात् प्रवहो गमनं बहिः।
वियामो वियमो यामः यमः संयामसंयमौ॥
हिम्साकर्माऽभिचारः स्यात् जागर्या जागरा द्वयोः।
विघ्नोऽन्तरायः प्रत्यूहः स्यादुपघ्नोऽन्तिकाश्रये॥
निर्वेश उपभोगः स्यात् परिसर्पः परिक्रिया।
विधुरं तु प्रविश्लेषे अभिप्रायश्छन्द आशयः॥
संक्षेपणं समसनं पर्यवस्था विरोधनम्।
परिसर्या परीसारः स्यात् आस्या त्वासना स्थितिः॥
विस्तारो विग्रहो व्यासः स च शब्दस्य विस्तरः।
संवाहनं मर्दनं स्याद् विनाशः स्याददर्शनम्॥
संस्तवः स्यात् परिचयः प्रसरस्तु विसर्पणम्।
नीवाकस्तु प्रयामः स्यात् संनिधिः संनिकर्षणम्॥
लवोऽभिलावो लवने निष्पावः पवने पवः।
प्रस्तावः स्यादवसरः त्रसरः सूत्रवेष्टनम्॥
प्रजनः स्यादुपसरः प्रश्रयप्रणयौ समौ।
धीशक्तिर्निष्क्रमोऽस्त्री तु संक्रमो दुर्गसंचरः॥
प्रत्युत्क्रमः प्रयोगाऽर्थः प्रक्रमः स्यादुपक्रमः।
स्यादभ्यादानमुद्धात आरम्भः संभ्रमस्त्वरा॥
प्रतिबन्धः प्रविष्टम्भः अवनायस्तु निपातनम्।
उपलम्भस्त्वनुभवः समालम्भो विलेपनम्॥
विप्रलम्भो विप्रयोगः विलम्भस्त्वतिसर्जनम्।
विश्रावस्तु प्रतिख्यातिः अवेक्षा प्रतिजागरः॥
निपाठनिपठौ पाठे तेमस्तेमौ समुन्दने।
आदीनवाऽऽस्रवौ क्लेशे मेलके संगसंगमौ॥
संवीक्षनं विचयनं मार्गणं मृगणा मृगः।
परिरम्भः परिष्वङ्गः संश्लेष उपगूहनम्॥
निर्वर्णनं तु निध्यानं दर्शनाऽऽलोकनेक्षणम्।
प्रत्याख्यानं निरसनं प्रत्यादेशो निराकृतिः॥
उपशायो विशायश्च पर्यायशयनाऽर्थकौ।
अर्तनं च ऋतीया च हृणीया च घृणाऽर्थकाः॥
स्याद् व्यत्यासो विपर्यासः व्यत्ययश्च विपर्यये।
पर्ययोऽतिक्रमस्तस्मिन् अतिपात उपात्ययः॥
प्रेषणं यत् समाहूय तत्र स्यात् प्रतिशासनम्।
स संस्तावः क्रतुषु या स्तुतिभूमिर्द्विजन्मनाम्॥
निधाय तक्ष्यते यत्र काष्ठे काष्ठं स उद्धनः।
स्तम्बघ्नस्तु स्तम्बघनः स्तम्बो येन निहन्यते॥
आविधो विध्यते येन तत्र विष्वक्समे निघः।
उत्खारश्च निकारश्च द्वौ धान्योत्क्षेपणाऽर्थकौ॥
निगारोद्गारविक्षावोद्ग्राहास्तु गरणाऽऽदिषु।
आरत्यवरतिविरतय उपरामेऽथाऽस्त्रियां तु निष्ठेवः॥
निष्ठयूतिर्निष्ठेवनं निष्ठीवनमित्यभिन्नानि।
जवने जूतिः सातिस्तु अवसाने स्यादथ ज्वरे जूर्तिः॥
उदजस्तु पशु प्रेरणम् अकरणिरित्याऽऽदयः शापे।
गोत्राऽन्तेभ्यस्तस्य वृन्दम् इत्यौपगवकाऽऽदिकम्॥
आपूपिकं शाष्कुलिकम् एवमाद्यमचेतसाम्।
माणवानां तु माणव्यं सहायानां सहायता॥
हल्या हलानां ब्राह्मण्य वाडव्ये तु द्विजन्मनाम्।
द्वे पर्शुकानां पृष्ठानां पार्श्वं पृष्ठ्यमनुक्रमात्॥
खलानां खलिनी खल्याऽपि अथ मानुष्यकं नृणाम्।
ग्रामता जनता धूम्या पाश्या गल्या पृथक्पृथक्॥
अपि साहस्रकारीष चार्मणाऽऽथर्वणाऽऽदिकम्॥
॥इति संकीर्णवर्गः॥

प्रियव्रतचरित्रम् । The historical story of Priyavrata. ...
गृहात्प्रव्रजितानां प्रचेतसां नारदोपदेशान्मुक्तिः । Prachetas who left home, obtained liberation from the discourse of Narada ...
दशप्रचेतसां भगवद्दर्शानं वरप्राप्तिश्च तेभ्यो मारिषागर्भाद्दक्षोत्पत्तिश्च । Sighting of Lord Vishnu by Dashaprachetas and getting boon, ...
पुरञ्जनोपाख्यानस्य तात्पर्यं नारदोपदेशः प्राचीनबर्हिषो मुक्तिश्च । The inner meaniing of Puranjana discourse and advise of ...
Loading story text...
https://www.krishnadhevalipi.org/wp-content/uploads/stories/txt/ra_story_words1921.txt
https://www.krishnadhevalipi.org/wp-content/uploads/stories/json/ra_story1921.json

Details of update

last updated - 23rd May, 2026