॥श्री अमरसिंहविरचितं नामलिङ्गानुशासनम्॥
॥तृतीयं काण्डम्॥
॥वर्गभेदाः॥
विशेष्य निघ्नैः संकीर्णैः नानाऽर्थैरव्ययैरपि।
लिङ्गाऽऽदि संग्रहैर्वर्गाः सामान्ये वर्गसंश्रयाः॥
॥परिभाषा॥
स्त्रीदाराऽऽद्यैर्यद् विशेष्यं यादृशैः प्रस्तुतं पदैः।
गुणद्रव्यक्रियाशब्दाः तथा स्युस्तस्य भेदकाः॥
॥अथ विशेष्यनिघ्नवर्गः॥
सुकृती पुण्यवान् धन्यः महेच्छस्तु महाशयः।
हृदयालुः सुहृदयः महोत्साहो महोद्यमः॥
प्रवीणे निपुणाऽभिज्ञ विज्ञनिष्णातशिक्षिताः।
वैज्ञानिकः कृतमुखः कृती कुशल इत्यपि॥
पूज्यः प्रतीक्ष्यः सांशयिकः संशयापन्नमानसः।
दक्षिणीयो दक्षिणार्हः तत्र दक्षिण्य इत्यपि॥
स्युर्वदान्यस्थूललक्ष्यदानशौण्डा बहुप्रदे।
जैवातृकः स्यादायुष्मान् अन्तर्वाणिस्तु शास्त्रवित्॥
परीक्षकः कारणिकः वरदस्तु समर्द्धकः।
हर्षमाणो विकुर्वाणः प्रमना हृष्टमानसः॥
दुर्मना विमना अन्तर्मनाः स्यादुत्क उन्मनाः।
दक्षिणे सरलोदारौ सुकलो दातृभोक्तरि॥
तत्परे प्रसिताऽऽसक्ता विष्टार्थोद्युक्त उत्सुकः।
प्रतीते प्रथितख्यात वित्त विज्ञातविश्रुताः॥
गुणैः प्रतीते तु कृतलक्षणाऽऽहतलक्षणौ।
इभ्य आढ्यो धनी स्वामी त्वीश्वरः पतिरीशिता॥
अधिभूर्नायको नेता प्रभुः परिवृढोऽधिपः।
अधिकर्धिः समृद्धः स्यात् कुटुम्बव्यापृतस्तु यः॥
स्यादभ्यागारिकस्तस्मिन् उपाधिश्च पुमानयम्।
वराङ्गरूपोपेतो यः सिंहसंहननो हि सः॥
निर्वार्यः कार्यकर्ता यः सम्पन्नः सत्वसम्पदा।
अवाचि मूकोऽथ मनोजवसः पितृसंनिभः॥
सत्कृत्याऽलङ्कृतां कन्यां यो ददाति स कूकुदः।
लक्ष्मीवान् लक्ष्मणः श्रीलः श्रीमान् स्निग्धस्तु वत्सलः॥
स्याद् दयालुः कारुणिकः कृपालुः सूरतस्समाः।
स्वतन्त्रोऽपावृतः स्वैरी स्वच्छन्दो निरवग्रहः॥
परतन्त्रः पराधीनः परवान् नाथवानपि।
अधीनो निघ्न आयत्तः अस्वच्छन्दो गृह्यकोऽप्यसौ॥
खलपूः स्याद् बहुकरः दीर्घसूत्रश्चिरक्रियः।
जाल्मोऽसमीक्ष्यकारी स्यात् कुण्ठो मन्दः क्रियासु यः॥
कर्मक्षमोऽलङ्कर्मीणः क्रियावान् कर्मसूद्यतः।
स कार्मः कर्मशीलो यः कर्मशूरस्तु कर्मठः॥
भरण्यभुक् कर्मकरः कर्मकारस्तु तत् क्रियः।
अपस्नातो मृतस्नातः आमिषशी तु शौष्कुलः॥
बुभुक्षितः स्यात् क्षुधितः जिघत्सुरशनायितः।
परान्नः परपिण्डादः भक्षको घस्मरोऽद्भरः॥
आद्यूनः स्यादौदरिकः विजिगीषाविवर्जिते।
उभौ त्वात्मम्भरिः कुक्षिम्भरिः स्वोदरपूरके॥
सर्वान्नीनस्तु सर्वान्नभोजी गृध्नुस्तु गर्धनः।
लुब्धोऽभिलाषुकस्तृष्णक् समौ लोलुपलोलुभौ॥
सोन्मादस्तून्मदिष्णुः स्यात् अविनीतः समुद्धतः।
मत्ते शौण्डोत्कटक्षीबाः कामुके कमिताऽनुकः॥
कम्रः कामयिताऽभीकः कमनः कामनोऽभिकः।
विधेयो विनयग्राही वचनेस्थित आश्रवः॥
वश्यः प्रणेयो निभृतविनीतप्रश्रिताः समाः।
धृष्टे धृष्णग् वियातश्च प्रगल्भः प्रतिभान्विते॥
स्यादधृष्टे तु शालीनः विलक्षो विस्मयान्विते।
अधीरे कातरस्त्रस्ते भीरुभीरुकभीलुकाः॥
आशंसुराशंसितरि गृहयालुर्ग्रहीतरि।
श्रद्धालुः श्रद्धया युक्ते पतयालुस्तु पातुके॥
लज्जाशीलेऽपत्रपिष्णुः वन्दारुरभिवादके।
शरारुर्घातुको हिंस्रः स्याद् वर्द्धिष्णुस्तु वर्द्धनः॥
उत्पतिष्णुस्तूत्पतिता अलङ्करिष्णुस्तु मण्डनः।
भूष्णुर्भविष्णुर्भविता वर्तिष्णुर्वर्तनः समौ॥
निराकरिष्णुः क्षिप्नुः स्यात् सान्द्रस्निग्धस्तु मेदुरः।
ज्ञाता तु विदुरो विन्दुः विकासी तु विकस्वरः॥
विसृत्वरो विसृमरः प्रसारी च विसारिणि।
सहिष्णुः सहनः क्षन्ता तितिक्षुः क्षमिता क्षमी॥
क्रोधनोऽमर्षणः कोपी चण्डस्त्वत्यन्तकोपनः।
जागरूको जागरिता घूर्णितः प्रचलायितः॥
स्वप्नक् शयालुर्निद्रालुः निद्राणशयितौ समौ।
पराङ्मुखः पराचीनः स्यादवाङ्प्यधोमुखः॥
देवानञ्चति देवद्र्यङ् विश्वद्र्यङ् विश्वगञ्चति।
यस्सहाञ्चति सध्र्यङ् सः स तिर्यङ् यस्तिरोऽञ्चति॥
वदो वदावदो वक्ता वागीशो वाक्पतिस्समौ।
वाचोयुक्तिपटुर्वाग्मी वावदूकोऽतिवक्तरि॥
स्याज् जल्पाकस्तु वाचालः वाचाटो बहुगर्ह्यवाक्।
दुर्मुखे मुखराऽबद्धमुखौ शक्लः प्रियम्वदे॥
लोहलः स्यादस्फुटवाग् गर्ह्यवादी तु कद्वदः।
समौ कुवादकुचरौ स्यादसौम्यस्वरोऽस्वरः॥
रवणः शब्दनो नान्दीवादी नान्दीकरः समौ।
जडोऽज्ञ एडमूकस्तु वक्तुं श्रोतुमशिक्षिते॥
तूष्णींशीलस्तु तूष्णीकः नग्नोऽवासा दिगम्बरे।
निष्कासितोऽवकृष्टः स्यात् अपध्वस्तस्तु धिक्कृतः॥
आत्तगर्वोऽभिभूतः स्याद् दापितः साधितः समौ।
प्रत्यादिष्टो निरस्तः स्यात् प्रत्याख्यातो निराकृतः॥
निकृतः स्याद् विप्रकृतः विप्रलब्धस्तु वञ्चितः।
मनोहतः प्रतिहतः प्रतिबद्धो हतश्च सः॥
अधिक्षिप्तः प्रतिक्षिप्तः बद्धे कीलितसंयतौ।
आपन्न आपत्प्राप्तः स्यात् कान्दिशीको भयद्रुतः॥
आक्षारितः क्षारितोऽभिशस्ते संकसुकोऽस्थिरे।
व्यसनार्तोपरक्तौ द्वौ विहस्तव्याकुलौ समौ॥
विक्लवो विह्वलः स्यात् तु विवशोऽरिष्टदुष्टधीः।
कश्यः कश्यार्हे सन्नद्धे त्वाततायी वधोद्यते॥
द्वेष्ये त्वक्षिगतो वध्यः शीर्षच्छेद्य इमौ समौ।
विष्यो विषेण यो वध्यः मुसल्यो मुसलेन यः॥
शिश्विदानोऽकृष्णकर्मा चपलश्चिकुरः समौ।
दोषैकदृक् पुरोभागी निकृतस्त्वनृजुः शठः॥
कर्णेजपः सूचकः स्यात् पिशुनो दुर्जनः खलः।
नृशंसो घातुकः क्रूरः पापो धूर्तस्तु वञ्चकः॥
अज्ञे मूढयथाजातमूर्खवैधेयबालिशाः।
कदर्ये कृपणक्षुद्र किम्पचानमितम्पचाः॥
निःस्वस्तु दुर्विधो दीनः दरिद्रो दुर्गतोऽपि सः।
वनीयको याचनकः मार्गणो याचकाऽर्थिनौ॥
अहङ्कारवानहंयुः शुभंयुस्तु शुभान्वितः।
दिव्योपपादुका देवः नृगवाऽऽद्या जरायुजाः॥
स्वेदजाः कृमिदंशाऽऽद्याः पक्षिसर्पाऽऽदयोऽण्डजाः।
उद्भिदस्तरुगुल्माऽऽद्याः उद्भिदुद्भिज्जमुद्भिदम्॥
सुन्दरं रुचिरं चारु सुषमं साधु शोभनम्।
कान्तं मनोरमं रुच्यं मनोज्ञं मञ्जु मञ्जुलम्॥
तदासेचनकं तृप्तेः नास्त्यन्तो यस्य दर्शनात्।
अभीष्टेऽभीप्सितं हृद्यं दयितं वल्लभं प्रियम्॥
निकृष्टप्रतिकृष्टाऽर्वरेफयाप्याऽवमाऽधमाः।
कुपूयकुत्सिताऽवद्यखेटगर्ह्याऽणकाः समाः॥
मलीमसं तु मलिनं कच्चरं मलदूषितम्।
पूतं पवित्रं मेध्यं च वीध्रं तु विमलाऽर्थकम्॥
निर्णिक्तं शोधितं मृष्टं निःशोध्यमनवस्करम्।
असारं फल्गु शून्यं तु वशिकं तुच्छरिक्तके॥
क्लीबे प्रधानं प्रमुखप्रवेकाऽनुत्तमोत्तमाः।
मुख्यवर्यवरेण्याश्च प्रवर्हो अनवरार्ध्यवत्॥
परार्ध्याऽग्रप्राग्रहर प्राग्रयाऽग्रयाऽग्रीयमग्रियम्।
श्रेयान् श्रेष्ठः पुष्कलः स्यात् सत्तमश्चाऽतिशोभने॥
स्युरुत्तरपदे व्याघ्र पुङ्गवर्षभकुञ्जराः।
सिंहशार्दूलनागाऽऽद्याः पुंसि श्रेष्ठाऽर्थगोचराः॥
अप्राग्रयं द्वयहीने तु अप्रधानोपसर्जने।
विशंकटं पृथु बृहद् विशालं पृथुलं महत्॥
वड्रोरुविपुलं पीनपीव्नी तु स्थूलपीवरे।
स्तोकाऽल्पक्षुल्लकाः सूक्ष्मं श्लक्ष्णं दभ्रं कृशं तनु॥
स्त्रियां मात्रा त्रुटिः पुंसि लवलेशकणाऽणवः।
अत्यल्पोऽल्पिष्ठमल्पीयः कनीयोऽणीय इत्यपि॥
प्रभूतं प्रचुरं प्राज्यम् अदभ्रं बहुलं बहु।
पुरुहूः पुरु भूयिष्ठं स्फारं भूयश्च भूरि च॥
परः शताऽऽद्यास्ते येषां परा संख्या शताऽऽदिकात्।
गणनीये तु गणेयं संख्याते गणितम् अथ समं सर्वम्॥
विश्वमशेषं कृत्स्नं समस्तनिखिल अखिलानि निःशेषम्।
समग्रं सकलं पूर्णम् अखण्डं स्यादनूनके॥
घनं निरन्तरं सान्द्रं पेलवं विरलं तनु।
समीपे निकटाऽऽसन्न संनिकृष्टसनीडवत्॥
सदेशाऽभ्याशसविध समर्यादसवेशवत्।
उपकण्ठाऽन्तिकाऽभ्यर्णाऽभ्यग्रा अप्यभितोऽव्ययम्॥
संसक्त् त्वव्यवहितम् अपदान्तरमित्यपि।
नेदिष्ठमन्तिकतमं स्याद् दूरं विप्रकृष्टकम्॥
दवीयश्च दविष्ठं च सुदूरं दीर्घमायतम्।
वर्तुलं निस्तलं वृत्तं बन्धुरं तून्नतानतम्॥
उच्चप्रांशून्नतोदग्रोच्छ्रितास्तुङ्गेऽथ वामने।
न्यङ्नीचखर्वह्रस्वाः स्युः अवाग्रेऽवनताऽऽनतम्॥
अरालं वृजिनं जिह्ममूर्मिमत् कुञ्चितं नतम्।
आविद्धं कुटिलं भुग्नं वेल्लितं वक्रमित्यपि॥
ऋजावजिह्मप्रगुणौ व्यस्ते त्वप्रगुणाऽऽकुलौ।
शाश्वतस्तु ध्रुवो नित्य सदातनसनातनाः॥
स्थास्नुः स्थिरतरः स्थेयानेकरूपतया तु यः।
कालव्यापी स कूटस्थः स्थावरो जङ्गमेतरः॥
चरिष्णु जङ्गमचरं त्रसमिङ्गं चराचरम्।
चलनं कम्पनं कम्प्रं चलम् लोलं चलाचलम्॥
चञ्चलं तरलं चैव पारिप्लवपरिप्लवे।
अतिरिक्तः समधिकः धृढसंधिस्तु संहतः॥
खक्खटं कठिनं क्रूरं कठोरं निष्ठुरं धृढम्।
जरठं मूर्तिमन् मूर्तं प्रवृद्धं प्रौढमेधितम्॥
पुराणे प्रतनप्रत्नपुरातनचिरन्तनाः।
प्रत्यग्रोऽभिनवो नव्यः नवीनो नूतनो नवः॥
नूत्नश्च सुकुमारं तु कोमलं मृदुलम् मृदु।
अन्वगन्वक्षमनुगेऽनुपदं क्लीबमव्ययम्॥
प्रत्यक्षं स्यादैन्द्रियकम् अप्रत्यक्षमतीन्द्रियम्।
एकतानोऽनन्यवृत्तिः एकाग्रैकायनावपि॥
अप्येकसर्ग एकाग्र्यः अप्येकायनगतोऽपि सः।
पुंस्यादिः पूर्वपौरस्त्यप्रथमाऽऽद्या अथाऽस्त्रियाम्॥
अन्तो जघन्यं चरमम् अन्त्यपाश्चात्यपश्चिमाः।
मोघं निरर्थकं स्पष्टं स्फुटं प्रव्यक्तमुल्बणम्॥
साधारणं तु सामान्यम् एकाकी त्वेक एककः।
भिन्नाऽर्थका अन्यतरः एकस्त्वोऽन्येतरावपि॥
उच्चावचं नैकभेदम् उच्चण्डम् अविलम्बितम्।
अरुन्तुदस्तु मर्मस्पृक् अबाधं तु निरर्गलम्॥
प्रसव्यं प्रतिकूलं स्यात् अपसव्यमपष्ठु च।
वामं शरीरे सव्यं स्यात् अपसव्यं तु दक्षिणम्॥
सङ्कटम् ना तु संबाधः कलिलं गहनं समे।
संकीर्णे संकुलाऽऽकीर्णे मुण्डितं परिवापितम्॥
ग्रन्थितं संदितं दृब्धं विसृतं विस्तृतं ततम्।
अन्तर्गतं विस्मृतं स्यात् प्राप्तप्रणिहिते समे॥
वेल्लितप्रेङ्खिताऽऽधूत चलिताऽऽकम्पिता धुते।
नुत्तनुन्नाऽस्तनिष्ठयूताऽऽविद्ध क्षिप्तेरिताः समाः॥
परिक्षिप्तं तु निवृत्तं मूषितं मुषिताऽर्थकम्।
प्रवृद्धप्रसृते न्यस्त निसृष्टे गुणिताऽऽहते॥
निदिग्धोपचिते गूढगुप्ते गुण्ठितरूषिते।
द्रुताऽवदीर्णे उद्गूर्णोद्यते काचितशिक्यिते॥
घ्राणघ्राते दिग्धलिप्ते समुदक्तोद्धृते समे।
वेष्टितं स्याद् वलयितं संवीतं रुद्धमावृतम्॥
रुग्णं भुग्नेऽथ निशित क्ष्णुतशातानितेजिते।
स्याद् विनाशोन्मुखं पक्वं ह्रीणह्रीतौ तु लज्जिते॥
वृत्ते तु वृतव्यावृत्तौ संयोजित उपाहितः।
प्राप्यं गम्यं समासाद्यं स्यन्नं रीणं स्नुतं स्रुतम्॥
संगूढः स्यात् कलितोऽवगीतः ख्यातगर्हणः।
विविधः स्याद् बहुविधः नानारूपः पृथग्विधः॥
अवरीणो धिक्कृतश्च अप्यवध्वस्तोऽवचूर्णितः।
अनायासकृतं फाण्टं स्वनितं ध्वनितम् समे॥
बद्धे संदानितं मूतमुद्दितं संदितं सितम्।
निष्पक्वे क्वथितं पाके क्षीराऽऽज्य हविषां शृतम्॥
निर्वाणो मुनिवह्न्याऽऽदौ निर्वातस्तु गतेऽनिले।
पक्वम् परिणते गूनं हन्ने मीढं तु मूत्रिते॥
पुष्टे तु पुषितं सोढे क्षान्तमुद्वान्तमुद्गते।
दान्तस्तु दमिते शान्तः शमिते प्रार्थितेऽर्दितः॥
ज्ञप्तस्तु ग्यपिते छन्नश्छादिते पूजितेऽञ्चितः।
पूर्णस्तु पूरिते क्लिष्टः क्लिशितेऽवसिते सितः॥
प्रुष्टप्लुष्टोषिता दग्धे तष्टत्वष्टौ तनूकृते।
वेधितच्छिद्रितौ विद्धे विन्नवित्तौ विचारिते॥
निष्प्रभे विगताऽरोकौ विलीने विद्रुतद्रुतौ।
सिद्धे निर्वृत्तनिष्पन्नौ दारिते भिन्नभेदितौ॥
ऊतं स्यूतमुतं चेति त्रितयं तन्तु सन्तते।
स्यादर्हिते नमस्यित नमसितमपचायिताऽर्चिताऽपचितम्॥
वरिवसिते वरिवस्यितम् उपासितं चोपचरितं च।
संतापितसंतप्तौ धूपित धूपायितौ च दूनश्च॥
हृष्टे मत्तस्तृप्तः प्रह्लन्नः प्रमुदितः प्रीतः।
छिन्नं छातं लूनं कृत्तं दातं दितं छितं वृक्णम्॥
स्रस्तं ध्वस्तं भ्रष्टं स्कन्नं पन्नं च्युतं गलितम्।
लब्धं प्राप्तं विन्नं भावितमासादितं च भूतम् च॥
अन्वेषितं गवेषितम् अन्विष्टं मार्गितं मृगितम्।
आर्द्रं सार्द्रं क्लिन्नं तिमितं स्मितितं समुन्नमुत्तं च॥
त्रातं त्राणं रक्षितमवितं गोपायितं च गुप्तं च।
अवगणितमवमताऽवज्ञाते अवमानितं च परिभूते॥
त्यक्तं हीनं विधुतं समुज्झितं धूतमुत्सृष्टे।
उक्तं भाषितमुदितं जल्पितमाख्यातमभिहितं लपितम्॥
बुद्धं बुधितं मनितं विदितं प्रतिपन्नमवसिताऽवगते।
उरीकृतमुररीकृतमङ्गीकृतमाश्रुतं प्रतिज्ञातम्॥
संगीर्णविदित संश्रुतसमाहितोपश्रुतोपगतम्।
ईलितशस्तपणायित पनायितप्रणुतपणितपनितानि॥
अपि गीर्णवर्णिताऽभिष्टुतेडितानि स्तुताऽर्थानि।
भक्षितचर्वितलीढप्रत्यवसित गिलितखादितप्सातम्॥
अभ्यवहृताऽन्नजग्धग्रस्तग्लस्ताऽशितं भुक्ते।
क्षेपिष्ठक्षोदिष्ठप्रेष्ठवरिष्ठस्थविष्ठबंहिष्ठाः॥
क्षिप्रक्षुद्राऽभीप्सितपृथुपीवर बहुलप्रकर्षाऽर्थाः।
साधिष्ठद्राघिष्ठस्फेष्ठ गरिष्ठह्रसिष्ठवृन्दिष्ठाः॥
बाढव्यायतबहुगुरुवामन वृन्दारकाऽतिशये॥
॥इति विशेष्यनिघ्नवर्गः॥