॥ वाग् यज्ञेन कल्पताम् ॥

See Listen and Chant

These Chanting are to Inspire You for, to Practice and Learn to Chanting Bhagavat Stotram. The occasional drift while highlighting is negligible and unavoidable because of the chanting styles. Some Chanting are collected from Internet, for educative and guided chanting practice and not to infringe any Copyrights.

Ready... Play...

Amara Kosha Kshatriya Varga

Amara Kosha is one of the most popular Sanaskrit kosha which is by-heart memorized and this page will facilitate you to learn, listen, see and chant. There are about 25 Varga and each varga is shown in individual page.

॥ अमरकोषः ॥

॥अथ क्षत्रियवर्गः॥
मूर्धाभिषिक्तो राजन्यः बाहुजः क्षत्रियो विराट्।
राजा राट् पार्थिवक्ष्माभृत् नृपभूपमहीक्षितः॥
राजा तु प्रणताशेषसामन्तः स्यादधीश्वरः।
चक्रवर्ती सार्वभौमः नृपोऽन्यो मण्डलेश्वरः॥
येनेष्टं राजसूयेन मण्डलस्येश्वरश्च यः।
शास्ति यश्चाज्ञया राज्ञः स सम्राडथ राजकम्॥
राजन्यकं च नृपतिक्षत्रियाणां गणे क्रमात्।
मन्त्री धीसचिवोऽमात्यः अन्ये कर्मसचिवास्ततः॥
महामात्रा प्रधानानि पुरोधास्तु पुरोहितः।
द्रष्टरि व्यवहाराणां प्राड्विवाकाक्षदर्शकौ॥
प्रतीहारो द्वारपालद्वास्थद्वास्थितदर्शकाः।
रक्षिवर्गस्त्वनीकस्थः अथाध्यक्षाधिकृतौ समौ॥
स्थायुकोऽधिकृतो ग्रामे गोपो ग्रामेषु भूरिषु।
भौरिकः कनकाध्यक्षः रूप्याध्यक्षस्तु नैष्किकः॥
अन्तःपुरे त्वधिकृतः स्यादन्तर्वेशिको जनः।
सौविदल्लाः कञ्चुकिनः स्थापत्याः सौविदाश्च ते॥
शण्ढो वर्षवरस्तुल्यौ सेवकार्थ्यनुजीविनः।
विषयानन्तरो राजा शत्रुर्मित्रमतः परम्॥
उदासीनः परतरः पार्ष्णिग्राहस्तु पृष्ठतः।
रिपौ वैरिसपत्नारि द्विषद्द्वेषणदुर्हृदः॥
द्विड् विपक्षाहितामित्रदस्युशात्रवशत्रवः।
अभिघातिपरारातिप्रत्यर्थिपरिपन्थिनः॥
वयस्यः स्निग्धः सवयाः अथ मित्रं सखा सुहृत्।
सख्यं साप्तपदीनं स्यात् अनुरोधोऽनुवर्तनम्॥
यथार्हवर्णः प्रणिधिः अपसर्पश्चरः स्पशः।
चारश्च गूढपुरुषश्च आप्तप्रत्ययितौ समौ॥
सांवत्सरो ज्यौतिषिकः दैवज्ञगणकावपि।
स्युर्मौहूर्तिकमौहूर्त ज्ञानिकार्तान्तिका अपि॥
तान्त्रिको ज्ञातसिद्धान्तः सत्री गृहपतिः समौ।
लिपिकारोऽक्षरचरणः अक्षरचुञ्चुश्च लेखके॥
लिखिताक्षरविन्यासे लिपिर्लिबिरुभे स्त्रियौ।
स्यात्संदेशहरो दूतः दूत्यं तद्भावकर्मणी॥
अध्वनीनोऽध्वगोऽध्वन्यः पान्थः पथिक इत्यपि।
स्वाम्यमात्यसुहृत्कोश राष्ट्रदुर्गबलानि च॥
राज्याङ्गानि प्रकृतयः पौराणां श्रेनयोऽपि च।
संधिर्ना विग्रहो यानम् आसनं द्वैधमाश्रयः॥
षड्गुणा: शक्तयस्तिस्रः प्रभावोत्साहमन्त्रजाः।
क्षयः स्थानं च वृद्धिश्च त्रिवर्गो नीतिवेदिनाम्॥
स प्रतापः प्रभावश्च यत्तेजः कोशदण्डजम्।
भेदो दण्डः साम दानम् इत्युपायचतुष्टयम्॥
साहसं तु दमो दण्डः साम सान्त्वमथो समौ।
भेदोपजापावुपधा धर्माद्यैर्यत्परीक्षणम्॥
पञ्च त्रिष्वषडक्षीणः यस्तृतीयाद्यगोचरः।
विविक्तविजनच्छन्न निःशलाकास्तथा रहः॥
रहश्चोपांशु चालिङ्गे रहस्यं तद्भवे त्रिषु।
समौ विस्रम्भविश्वासौ भ्रेषो भ्रंशो यथोचितात्॥
अभ्रेषन्यायकल्पास्तु देशरूपं समञ्जसम्।
युक्तमौपयिकं लभ्यं भजमानाभिनीतवत्॥
न्याय्यं च त्रिषु षट् संप्रधारणा तु समर्थनम्।
अववादस्तु निर्देशः निदेशः शासनं च सः॥
शिष्टिश्चाज्ञा च संस्था तु मर्यादा धारणा स्थितिः।
आगोऽपराधो मन्तुश्च समे तूद्दानबन्धने॥
द्विपाद्यो द्विगुणो दण्डः भागधेयः करो बलिः।
घट्टादिदेयं शुल्कोऽस्त्री प्राभृतं तु प्रदेशनम्॥
उपायनमुपग्राह्यमुपहारस्तथोपदा।
यौतकादि तु यद्देयं सुदायो हरणं च तत्॥
तत्कालस्तु तदात्वं स्यात् उत्तरः काल आयतिः।
सांदृष्टिकं फलं सद्यः उदर्कः फलमुत्तरम्॥
अदृष्टं वह्नितोयादि दृष्टं स्वपरचक्रजम्।
महीभुजामहिभयं स्वपक्षप्रभवं भयम्॥
प्रक्रिया त्वधिकारः स्यात् चामरं तु प्रकीर्णकम्।
नृपासनं यत्तद्भद्रासनं सिंहासनं तु तत्॥
हैमं छत्रं त्वातपत्रं राज्ञस्तु नृपलक्ष्म तत्।
भद्रकुम्भः पूर्णकुम्भः भृङ्गारः कनकालुका॥
निवेशः शिबिरं षण्ढे सज्जनं तूपरक्षणम्।
हस्त्यश्वरथपादातं सेनाङ्गं स्याच्चतुष्टयम्॥
दन्ती दन्तावलो हस्ती द्विरदोऽनेकपो द्विपः।
मतङ्गजो गजो नागः कुञ्जरो वारणः करी॥
इभः स्तम्बेरभः पद्मी यूथनाथस्तु यूथपः।
मदोत्कटो मदकलः कलभः करिशावकः॥
प्रभिन्नो गर्जितो मत्तः समावुद्वान्तनिर्मदौ।
हास्तिकं गजता वृन्दे करिणी धेनुका वशा॥
गण्डः कटो मदो दानं वमथुः करशीकरः।
कुम्भौ तु पिण्डौ शिरसस्तयोर्मध्ये विदुः पुमान्॥
अवग्रहो ललाटं स्यात् ईषिका त्वक्षिकूटकम्।
अपाङ्गदेशो निर्याणं कर्णमूलं तु चूलिका॥
अधः कुम्भस्य वाहित्थं प्रतिमानमधोऽस्य यत्।
आसनं स्कन्धदेशः स्यात् पद्मकं बिन्दुजालकम्॥
पार्श्वभागः पक्षभागः दन्तभागस्तु योऽग्रतः।
द्वौ पूर्वपश्चाज्जङ्घादि देशौ गात्रावरे क्रमात्॥
तोत्रं वेणुकमालानं बन्धस्तम्भेऽथ श‍ृङ्खले।
अन्दुको निगडोऽस्त्री स्यात् अङ्कुशोऽस्त्री सृणिः स्त्रियाम्॥
दूष्या कक्ष्या वरत्रा स्यात् कल्पना सज्जना समे।
प्रवेण्यास्तरणं वर्णः परिस्तोमः कुथो द्वयोः॥
वीतं त्वसारं हस्त्यश्वं वारी तु गजबन्धनी।
घोटके वीतितुरग तुरङ्गाश्वतुरङ्गमाः॥
वाजिवाहार्वगन्धर्व हयसैन्धवसप्तयः।
आजानेयाः कुलीनाः स्युः विनीताः साधुवाहिनः॥
वनायुजाः पारसीकाः काम्बोजाः बाह्लिका हयाः।
ययुरश्वोऽश्वमेधीयः जवनस्तु जवाधिकः॥
पृष्ठ्यः स्थौरी सितः कर्कः रथ्यो वोढा रथस्य यः।
बालः किशोरो वाम्यश्वा वडवा वाडवं गणे॥
त्रिष्वाश्वीनं यदश्वेन दिनेनैकेन गम्यते।
कश्यं तु मध्यमश्वानां हेषा ह्रेषा च निस्वनः॥
निगालस्तु गलोद्देशः वृन्दे त्वश्वीयमाश्ववत्।
आस्कन्दितं धौरितकं रेचितम् वल्गितं प्लुतम्॥
गतयोऽमूः पञ्च धारा घोणा तु प्रोथमस्त्रियाम्।
कविका तु खलीनोऽस्त्री शफं क्लीबे खुरः पुमान्॥
पुच्छोऽस्त्री लूमलाङ्गूले वालहस्तश्च वालधिः।
त्रिषूपावृत्तलुठितौ परावृत्ते मुहुर्भुवि॥
याने चक्रिणि युद्धार्थे शताङ्गः स्यन्दनो रथः।
असौ पुष्परथश्चक्रयानं न समराय यत्॥
कर्णीरथः प्रवहणं डयनं च समं त्रयम्।
क्लीबेऽनः शकटोऽस्त्री स्यात् गन्त्री कम्बलिवाह्यकम्॥
शिबिका याप्ययानं स्यात् दोला प्रेङ्खादिकाः स्त्रियाम्।
उभौ तु द्वैपवैयाघ्रौ द्वीपिचर्मावृते रथे॥
पाण्डुकम्बलसंवीतः स्यन्दनः पाण्डुकम्बली।
रथे काम्बलवास्त्राद्याः कम्बलादिभिरावृते॥
त्रिषु द्वैपादयो रथ्या रथकड्या रथव्रजे।
धूः स्त्री क्लीबे यानमुखं स्याद्रथाङ्गमपस्करः॥
चक्रं रथाङ्गं तस्यान्ते नेमिः स्त्री स्यात्प्रधिः पुमान्।
पिण्डिका नाभिरक्षाग्रकीलके तु द्वयोरणिः॥
रथगुप्तिर्वरूथो ना कूबरस्तु युगंधरः।
अनुकर्षी दार्वधःस्थं प्रासङ्गो ना युगाद्युगः॥
सर्वं स्याद्वाहनं यानं युग्यं पत्रं च धोरणम्।
परम्परावाहनं यत् तद्वैनीतकमस्त्रियाम्॥
आधोरणा हस्तिपका हस्त्यारोहा निषादिनः।
नियन्ता प्राजिता यन्ता सूतः क्षत्ता च सारथिः॥
सव्येष्ठदक्षिणस्थौ च संज्ञा रथकुटुम्बिनः।
रथिनः स्यन्दनारोहाः अश्वारोहास्तु सादिनः॥
भटा योधाश्च योद्धारः सेनारक्षास्तु सैनिकाः।
सेनायां समवेता ये सैन्यास्ते सैनिकाश्च ते॥
बलिनो ये सहस्रेण साहस्रास्ते सहस्रिणः।
परिधिस्थः परिचरः सेनानीर्वाहिनीपतिः॥
कञ्चुको वारबाणोऽस्त्री यत्तु मध्ये सकञ्चुकाः।
बध्नन्ति तत्सारसनम् अधिकाङ्गोऽथ शीर्षकम्॥
शीर्षण्यं च शिरस्त्रेऽथ तनुत्रं वर्म दंशनम्।
उरश्छदः कङ्कटकः जागरः कवचोऽस्त्रियाम्॥
आमुक्तः प्रतिमुक्तश्च पिनद्धश्चापिनद्धवत्।
संनद्धो वर्मितः सज्जः दंशितो व्युढकङ्कटः॥
त्रिष्वामुक्तादयो वर्मभृतां कावचिकं गणे।
पदातिपत्तिपदगपादातिकपदातयः॥
पद्गश्च पदिकश्चाथ पादातं पत्तिसंहतिः।
शस्त्राजीवे काण्डपृष्ठायुधीयायुधिकाः समाः॥
कृतहस्तः सुप्रयोगविशिखः कृतपुङ्खवत्।
अपराद्धपृषत्कोऽसौ लक्ष्याद्यश्च्युतसायकः॥
धन्वी धनुष्मान्धानुष्कः निषङ्ग्यस्त्री धनुर्धरः।
स्यात्काण्डवांस्तु काण्डीरः शाक्तीकः शक्तिहेतिकः॥
याष्टीकपारश्वथिकौ यष्टिपर्श्वथहेतिकौ।
नैस्त्रिंशिकोऽसिहेतिः स्यात्समौ प्रासिककौन्तिकौ॥
चर्मी फलकपाणिः स्यात्पताकी वैजयन्तिकः।
अनुप्लवः सहायश्च अनुचरोऽनुचरोऽभिचरः समाः॥
पुरोगाऽग्रेसरप्रष्ठाऽग्रतःसरपुरःसराः।
पुरोगमः पुरोगामी मन्दगामी तु मन्थरः॥
जङ्घालोऽतिजवस्तुल्यौ जङ्घाकरिकजाङ्घिकौ।
तरस्वी त्वरितो वेगी प्रजवी जवनो जवः॥
जय्यो यः शक्यते जेतुं जेयो जेतव्यमात्रके।
जैत्रस्तु जेता यो गच्छति अलं विद्विषतः प्रति॥
सोऽभ्यमित्रोऽभ्यमित्रीयः अप्यभ्यमित्रीण इत्यपि।
ऊर्जस्वलः स्यादूर्जस्वी य ऊर्जोऽतिशयान्वितः॥
स्वादुरस्वानुरसिलः रथिको रथिरो रथी।
कामगाम्यनुकामीनः ह्यत्यन्तीनस्तथा भृशम्॥
शूरो वीरश्च विक्रान्तः जेता जिष्णुश्च जित्वरः।
सांयुगीनो रणे साधुः शस्त्राजीवाऽऽदयस्त्रिषु॥
ध्वजिनी वाहिनी सेना पृतनाऽनीकिनी चमूः।
वरूथिनी बलं सैन्यं चक्रं चाऽनीकमस्त्रियाम्॥
व्यूहस्तु बलविन्यासः भेदादण्डाऽऽदयो युधि।
प्रत्यासारो व्यूहपार्ष्णिः सैन्यपृष्ठे प्रतिग्रहः॥
एकेभैकरथा त्र्यश्वा पत्तिः पञ्चपदातिका।
पत्त्यङ्गैस्त्रिगुणैः सर्वैः क्रमादाख्या यथोत्तरम्॥
सेनामुखं गुल्मगणौ वाहिनी पृतना चमूः।
अनीकिनी दशाऽनीकिनि अक्षौहिण्यथ संपदि॥
संपत्तिः श्रीश्च लक्ष्मीश्च विपत्त्यां विपदापदौ।
आयुधं तु प्रहरणं शस्त्रमस्त्रमथाऽस्त्रियौ॥
धनुश्चापौ धन्वशरासनकोदण्डकार्मुकम्।
इष्वासोऽप्यथ कर्णस्य कालपृष्ठं शरासनम्॥
कपिध्वजस्य गाण्डीवगाण्डिवौ पुंनपुंसकौ।
कोटिरस्याऽटनी गोधे तले ज्याघातवारणे॥
लस्तकस्तु धनुर्मध्यं मोर्वी ज्या शिञ्जिनी गुणः।
स्यात्प्रत्यालीढमालीढम् इत्यादि स्थानपञ्चकम्॥
लक्ष्यं लक्षं शरव्यं च शराभ्यास उपासनम्।
पृषत्कबाणविशिखा अजिह्मगखग आशुगाः॥
कलम्बमार्गणशराः पत्री रोप इषुर्द्वयोः।
प्रक्ष्वेडनास्तु नाराचाः पक्षो वाजस्त्रिषूत्तरे॥
निरस्तः प्रहिते बाणे विषाऽक्ते दिग्धलिप्तकौ।
तूणोपासङ्गतूणीरनिषङ्गा इषुधिर्द्वयोः॥
तूण्यां खड्गे तु निस्त्रिंश चन्द्रहासाऽसिरिष्टयः।
कौक्षेयको मण्डलाग्रः करवालः कृपाणवत्॥
त्सरुः खड्गादिमुष्टौ स्यात् मेखला तन्निबन्धनम्।
फलकोऽस्त्री फलं चर्म संग्राहो मुष्टिरस्य यः॥
द्रुघणो मुद्गरघनौ स्यादीली करवालिका।
भिन्दिपालः सृगस्तुल्यौ परिघः परिघातिनः॥
द्वयोः कुठारः स्वधितिः परशुश्च परश्वधः।
स्याच्छ्स्त्री चाऽसिपुत्री च छुरिका चाऽसिधेनुका॥
वा पुंसि शल्यं शङ्कुर्ना सर्वला तोमरोऽस्त्रियाम्।
प्रासस्तु कुन्तः कोणस्तु स्त्रियः पाल्यश्रिकोटयः॥
सर्वाभिसारः सर्वौघः सर्वसन्नहनार्थकः।
लोहाभिसारोऽस्त्रभृतां राज्ञां नीराजनाविधिः॥
यत्सेनयाऽभिगमनम् अरौ तदभिषेणनम्।
यात्रा व्रज्याऽभिनिर्याणं प्रस्थानं गमनं गमः॥
स्यादासारः प्रसरणं प्रचक्रं चलितार्थकम्।
अहितान्प्रत्यभीतस्य रणे यानमभिक्रमः॥
वैतालिका बोधकराः चाक्रिका घाण्टिकार्थकाः।
स्युर्मागधास्तु मगधाः बन्दिनः स्तुतिपाठकाः॥
संशप्तकास्तु समयात् संग्रामादनिवर्तिनः।
रेणुर्द्वयोः स्त्रियां धूलिः पांसुर्ना न द्वयो रजः॥
चूर्णे क्षोदः समुत्पिञ्जपिञ्जलौ भृशमाकुले॥
पताका वैजयन्ती स्यात्केतनं ध्वजमस्त्रियाम्।
सा वीराशंसनं युद्धभूमिर्याऽतिभयप्रदा॥
अहं पूर्वमहं पूर्वमित्यहंपूर्विका स्त्रियाम्।
आहोपुरुषिका दर्पाद्या स्यात्संभावनाऽऽत्मनि॥
अहमहमिका तु सा स्यात् परस्परं यो भवत्यहङ्कारः।
द्रविणं तरः सहोबलशौर्याणि स्थाम शुष्मं च॥
शक्तिः पराक्रमः प्राणः विक्रमस्त्वतिशक्तिता।
वीरपाणं तु यत्पानं वृत्ते भाविनि वा रणे॥
युद्धमायोधनं जन्यं प्रघनं प्रविदारणम्।
मृधमास्कन्दनं संख्यं समीकं सांपरायिकम्॥
अस्त्रियां समराऽनीकरणाः कलहविग्रहौ।
संप्रहाराऽभिसंपात कलिसंस्फोट संयुगाः॥
अभ्यामर्द समाघात संग्रामाऽभ्यागमाऽऽहवाः।
समुदायः स्त्रियः संयत् समित्याऽऽजिसमिद्युधः॥
नियुद्धं बाहुयुद्धेऽथ तुमुलं रणसंकुले।
क्ष्वेदा तु सिंहनादः स्यात् करिणां घटना घटा॥
क्रंदनं योधसंरावः बृंहितं करिगजिऋतम्।
विस्फारो धनुषः स्वानः पटहाडम्बरौ समौ॥
प्रसभं तु बलात्कारः हठोऽथ स्खलितं छलम्।
अजन्यं क्लीबमुत्पात उपसर्गः समं त्रयम्॥
मूर्च्छा तु कश्मलं मोहः अप्यवमर्दस्तु पीडनम्।
अभ्यवस्कन्दनं त्वभ्यासादनं विजयो जयः॥
वैरशुद्धिः प्रतीकारः वैरनिर्यातनं च सा।
प्रद्रावोद्द्रावसंद्राव संदावा विद्रवो द्रवः॥
अपक्रमोऽपयानं च रणे भंगः पराजयः।
पराजितपराभूतौ त्रिषु नष्टतिरोहितौ॥
प्रमापणं निबर्हणं निकारणं विशारणम्।
प्रवासनं परासनं निषूदनं निहिंसनम्॥
निर्वासनं संज्ञपनं निर्ग्रन्थनमपासनम्।
निस्तर्हणं निहननं क्षणनं परिवर्जनम्॥
निर्वापणं विशसनं मारणं प्रतिघातनम्।
उद्वासन प्रमथन क्रथनोज्जासनानि च॥
आलम्भपिञ्जविशर घातोन्माथवधा अपि।
स्यात् पञ्चता कालधर्मः दिष्टान्तः प्रलयोऽत्ययः॥
अन्तो नाशो द्वयोर्मृत्युः मरणं निधनोऽस्त्रियाम्।
परासुप्राप्तपंचत्व परेतप्रेतसंस्थिताः॥
मृतप्रमीतौ त्रिष्वेते चिता चित्या चितिः स्त्रियाम्।
कबंधोऽस्त्री क्रिया युक्तम् अपमूर्धकलेवरम्॥
श्मशानं स्यात् पितृवनं कुणपः शवमस्त्रियाम्।
प्रग्रहोपग्रहौ बंद्यां कारा स्यात् बंधनालये॥
पुंसि भूम्न्यसवः प्राणाः चैवं जीवोऽसुधारणम्।
आयुर्जीवितकालो ना जीवातुर्जीवनौषधम्॥
॥इति क्षत्रियवर्गः॥

नारदव्याससंवादः भगवद्गुणकर्मवर्णनस्य महत्त्वं देवर्षिनारदकर्तृकं स्वकीयपूर्वजन्मवृत्तान्ताकथनं च - The conversation between Maharshi Vyasa and Dhevarshi Narada, ...
महर्षेर्व्यासस्यापरितोषः तदाश्रमे देवर्शिनारदस्यागमनं च - Maharshi Vyasa's ashrama visited by Dhevarshi Narada. ...
भगवतचतुर्विंशत्यवताराणां संक्षेपतो वर्णनम् - A brief intro about the 24 various incarnation of God Vishnu. ...
सूतप्रतिवचनम् - भगवत्कथायाः श्रवणकीर्तनयोर्निःश्रेयसकरत्वं भवगवद्भक्तेर्माहात्म्यवर्णनं च - The answer given by Suta Maharishi - The ...
Loading story text...
https://www.krishnadhevalipi.org/wp-content/uploads/stories/txt/ra_story_words1917.txt
https://www.krishnadhevalipi.org/wp-content/uploads/stories/json/ra_story1917.json

Details of update

last updated - 23rd May, 2026