॥ वाग् यज्ञेन कल्पताम् ॥

See Listen and Chant

These Chanting are to Inspire You for, to Practice and Learn to Chanting Bhagavat Stotram. The occasional drift while highlighting is negligible and unavoidable because of the chanting styles. Some Chanting are collected from Internet, for educative and guided chanting practice and not to infringe any Copyrights.

Ready... Play...

Amara Kosha Manushya Varga

Amara Kosha is one of the most popular Sanaskrit kosha which is by-heart memorized and this page will facilitate you to learn, listen, see and chant. There are about 25 Varga and each varga is shown in individual page.

॥ अमरकोषः ॥

॥अथ मनुष्यवर्गः॥
मनुष्या मानुषा मर्त्या मनुजा मानवा नराः।
स्युः पुमांसः पञ्चजनाः पुरुषाः पूरुषा नरः॥
स्त्री योषिदबला योषा नारी सीमन्तिनी वधूः।
प्रतीपदर्शिनी वामा वनिता महिला तथा॥
विशेषास्त्वङ्गना भीरुः कामिनी वामलोचना।
प्रमदा मानिनी कान्ता ललना च नितम्बिनी॥
सुन्दरी रमणी रामा कोपना सैव भामिनी।
वरारोहा मत्तकाशिन्युत्तमा वरवर्णिनी॥
कृताभिषेका महिषी भोगिन्योऽन्या नृपस्त्रियः।
पत्नी पाणिगृहीती च द्वितीया सहधर्मिणी॥
भार्या जायाथ पुंभूम्नि दाराः स्यात्तु कुटुम्बिनी।
पुरंध्री सुचरित्रा तु सती साध्वी पतिव्रता॥
कृतसापत्निकाध्यूढा अधिविन्नाथ स्वयंवरा।
पतिंवरा च वर्याथ कुलस्त्री कुलपालिका॥
कन्या कुमारी गौरी तु नग्निकाऽनागतार्तवा।
स्यान्मध्यमा दृष्टरजास्तरुणी युवतिः समे॥
समाः स्नुषाजनीवध्वश्चिरिण्टी तु सुवासिनी।
इच्छावती कामुका स्याद् वृषस्यन्ती तु कामुकी॥
कान्तार्थिनी तु या याति संकेतं साभिसारिका।
पुंश्चली धर्षिणी बन्धक्यसती कुलटेत्वरी॥
स्वैरिणी पांसुला च स्यात् अशिश्वी शिशुना विना।
अवीरा निष्पतिसुता विश्वस्ताविधवे समे॥
आलिः सखी वयस्याथ पतिवत्नी सभर्तृका।
वृद्धा पलिक्नी प्राज्ञी तु प्रज्ञा प्राज्ञा तु धीमती॥
शूद्री शूद्रस्य भार्या स्यात् शूद्रा तज्जातिरेव च।
आभीरी तु महाशूद्री जातिपुंयोगयोः समा॥
अर्याणी स्वयमर्या स्यात् क्षत्रिया क्षत्रियाण्यपि।
उपाध्यायाप्युपाध्यायी स्यादाचार्यापि च स्वतः॥
आचार्यानी तु पुंयोगे स्यादर्यी क्षत्रियी तथा।
उपाध्यायान्युपाध्यायी पोटा स्त्रीपुंसलक्षणा॥
वीरपत्नी वीरभार्या वीरमाता तु वीरसूः।
जातापत्या प्रजाता च प्रसूता च प्रसूतिका॥
स्त्री नग्निका कोटवी स्यात् दूतीसंचारिके समे।
कात्यायन्यर्धवृद्धा या काषायवसनाऽधवा॥
सैरन्ध्री परवेश्मस्था स्ववशा शिल्पकारिका।
असिक्नी स्यादवृद्धा या प्रेष्याऽन्तःपुरचारिणी॥
वारस्त्री गणिका वेश्या रूपाजीवाथ सा जनैः।
सत्कृता वारमुख्या स्यात् कुट्टनी शम्भली समे॥
विप्रश्निका त्वीक्षणिका दैवज्ञाथ रजस्वला।
स्त्रीधर्मिण्यविरात्रेयी मलिनी पुष्पवत्यपि॥
ऋतुमत्यप्युदक्यापि स्याद्रजः पुष्पमार्तवम्।
श्रद्धालुर्दोहदवती निष्कला विगतार्तवा॥
आपन्नसत्त्वा स्याद्गुर्विणी अन्तर्वत्नी च गर्भिणी।
गणिकादेस्तु गाणिक्यं गार्भिणं यौवतं गणे॥
पुनर्भूर्दिधिषूरूढा द्विस्तस्या दिधिषुः पतिः।
स तु द्विजोऽग्रेदिधिषूः सैव यस्य कुटुम्बिनी॥
कानीनः कन्यकाजातः सुतोऽथ सुभगासुतः।
सौभागिनेयः स्यात्पारस्त्रैणेयस्तु परस्त्रियाः॥
पैतृष्वसेयः स्यात्पैतृष्वस्रीयश्च पितृष्वसुः।
सुतो मातृष्वसुश्चैवं वैमात्रेयो विमातृजः॥
अथ बान्धकिनेयः स्यात् बन्धुलश्चासतीसुतः।
कौलटेरः कौलतेयः भिक्षुकी तु सती यदि॥
तदा कौलटिनेयोऽस्याः कौलटेयोऽपि चात्मजः।
आत्मजस्तनयः सूनुः सुतः पुत्रः स्त्रियां त्वमी॥
आहुर्दुहितरं सर्वे अपत्यं तोकं तयोः समे।
स्वजाते त्वौरसोरस्यौ तातस्तु जनकः पिता॥
जनयित्री प्रसूर्माता जननी भगिनी स्वसा।
ननान्दा तु स्वसा पत्युः नप्त्री पौत्री सुतात्मजा॥
भार्यास्तु भ्रातृवर्गस्य यातरः स्युः परस्परम्।
प्रजावती भ्रातृजाया मातुलानी तु मातुली॥
पतिपत्न्योः प्रसूः श्वश्रूः श्वशुरस्तु पिता तयोः।
पितुर्भ्राता पितृव्यः स्यात् मातुर्भ्राता तु मातुलः॥
श्यालाः स्युर्भ्रातरः पत्न्याः स्वामिनो देवृदेवरौ।
स्वस्रीयो भागिनेयः स्यात् जामाता दुहितुः पतिः॥
पितामहः पितृपिता तत्पिता प्रपितामहः।
मातुर्मातामहाद्येवं सपिण्डास्तु सनाभयः॥
समानोदर्यसोदर्य सगर्भ्यसहजाः समाः।
सगोत्रबान्धवज्ञाति बन्धुस्वस्वजनाः समाः॥
ज्ञातेयं बन्धुता तेषां क्रमाद्भावसमूहयोः।
धवः प्रियः पतिर्भर्ता जारस्तूपपतिः समौ॥
अमृते जारजः कुण्डः मृते भर्तरि गोलकः।
भ्रात्रीयो भ्रातृजो भ्रातृ भगिन्यौ भ्रातरावुभौ॥
मातापितरौ पितरौ मातरपितरौ प्रसूजनयितारौ।
श्वश्रूश्वशुरौ श्वशुरौ पुत्रौ पुत्रश्च दुहिता च॥
दंपती जंपती जायापती भार्यापती च तौ।
गर्भाशयो जरायुः स्यात् उल्बं च कललोऽस्त्रियाम्॥
सूतिमासो वैजननः गर्भो भ्रूण इमौ समौ।
तृतीयाप्रकृतिः शण्ढः क्लीबः षण्डो नपुंसके॥
शिशुत्वं शैशवं बाल्यं तारुण्यं यौवनं समे।
स्यात्स्थाविरं तु वृद्धत्वं वृद्धसंघेऽपि वार्धकम्॥
पलितं जरसा शौक्ल्यं केशादौ विस्रसा जरा।
स्यादुत्तानशया डिम्भा स्तनपा च स्तनंधयी॥
बालस्तु स्यान्माणवकः वयस्थस्तरुणो युवा।
प्रवयाः स्थविरो वृद्धः जीनो जीर्णो जरन्नपि॥
वर्षीयान्दशमी ज्यायान् पूर्वजस्त्वग्रियोऽग्रजः।
जघन्यजे स्युः कनिष्ठयवीयोऽवरजानुजाः॥
अमांसो दुर्बलश्छातः बलवान्मांसलोंऽसलः।
तुन्दिलस्तुन्दिभस्तुन्दी बृहत्कुक्षिः पिचण्डिलः॥
अवटीटोऽवनाटश्च अवभ्रटो नतनासिके।
केशवः केशिकः केशी वलिनो वलिभः समौ॥
विकलाङ्गस्त्वपोगण्डः खर्वो ह्रस्वश्च वामनः।
खरणाः स्यात्खरणसः विग्रस्तु गतनासिकः॥
खुरणाः स्यात्खुरणसः प्रज्ञुः प्रगतजानुकः।
ऊर्ध्वज्ञुरूर्ध्वजानुः स्यात्संज्ञुः संहतजानुकः॥
स्यादेडे बधिरः कुब्जे गडुलः कुकरे कुणिः।
पृश्निरल्पतनौ श्रोणः पङ्गौ मुण्डस्तु मुण्डिते॥
वलिरः केकरे खोडे खञ्जस्त्रिषु जरावराः।
जडुलः कालकः पिप्लुः तिलकस्तिलकालकः॥
अनामयं स्यादारोग्यं चिकित्सा रुक्प्रतिक्रिया।
भेषजौषधभैषज्यान्यगदो जायुरित्यपि॥
स्त्री रुग्रुजा चोपताप रोगव्याधिगदामयाः।
क्षयः शोषश्च यक्ष्मा च प्रतिश्यायस्तु पीनसः॥
स्त्री क्षुत्क्षुतं क्षवः पुंसि कासस्तु क्षवथुः पुमान्।
शोफस्तु श्वयथुः शोथः पादस्फोटो विपादिका॥
किलाससिध्मे कच्छ्वां तु पामपामे विचर्चिका।
कण्डूः खर्जूश्च कण्डूया विस्फोटः पिटकः स्त्रियाम्॥
व्रणोऽस्त्रियामीर्ममरुः क्लीबे नाडीव्रणः पुमान्।
कोठो मण्डलकं कुश्ठ श्वित्रे दुर्नामकार्शसी॥
आनाहस्तु निबन्धः स्यात् ग्रहणीरुक्प्रवाहिका।
प्रच्छर्दिका वमिश्च स्त्री पुमांस्तु वमथुः समाः॥
व्याधिभेदा विद्रधिः स्त्री ज्वरमेहभगंदराः।
श्लीपदं पादवल्मीकं केशघ्नस्त्विन्द्रलुप्तकः॥
अश्मरी मूत्रकृच्छ्रम् स्यात् पूर्वे शुक्रावधेस्त्रिषु।
रोगहार्यगदंकारः भिषग्वैद्यौ चिकित्सके॥
वार्तो निरामयः कल्य उल्लाघो निर्गतो गदात्।
ग्लानग्लास्नू आमयावी विकृतो व्याधितोऽपटुः॥
आतुरोऽभ्यमितोऽभ्यान्तः समौ पामनकच्छुरौ।
दद्रुणो दद्रुरोगी स्यात् अर्शोरोगयुतोऽर्शसः॥
वातकी वातरोगी स्यात् सातिसारोऽतिसारकी।
स्युः क्लिन्नाक्षे चुल्लचिल्ल पिल्लाः क्लिन्नेऽक्ष्णि चाप्यमी॥
उन्मत्त उन्मादवति श्लेष्मलः श्लेष्मणः कफी।
न्युब्जो भुग्ने रुजा वृद्धनाभौ तुन्दिलतुन्दिभौ॥
विलासी सिध्मलोऽन्धोऽदृक् मूर्च्छाले मूर्तमूर्च्छितौ।
शुक्रं तेजोरेतसी च बीजवीर्येन्द्रियाणि च॥
मायुः पित्तं कफः श्लेष्मा स्त्रियां तु त्वगसृग्धरा।
पिशितं तरसं मांसं पललं क्र्व्यमामिषम्॥
उत्ततप्तं शुश्कमांसं स्यात्तद्वल्लूरं त्रिलिङ्गकम्।
रुधिरेऽसृग्लोहितास्र रक्तक्षतजशोणितम्॥
बुक्काग्रमांसं हृदयं हृन्मेदस्तु वपा वसा।
पश्चाद्ग्रीवाशिरा मन्या नाडी तु धमनिः शिरा॥
तिलकं क्लोम मस्तिष्कं गोर्दं किट्टं मलोऽस्त्रियाम्।
अन्त्रं पुरीतगुल्मस्तु प्लीहा पुंस्यथ वस्नसा॥
स्नायुः स्त्रियां कालखण्ड यकृती तु समे इमे।
सृणिका स्यन्दिनी लाला दूषिका नेत्रयोर्मलम्॥
नासामलं तु सिंघाणं पिञ्जूषं कर्णयोर्मलम्।
मूत्रं प्रस्राव उच्चारावस्करौ शमलं शकृत्॥
पुरीषं गूथवर्चस्कमस्त्री विष्ठाविशौ स्त्रियौ।
स्यात्कर्परः कपालोऽस्त्री कीकसं कुल्यमस्थि च॥
स्याच्छरीरास्थ्नि कंकालः पृष्ठास्थ्नि तु कशेरुका।
शिरोस्थनि करोटिः स्त्री पार्श्वास्थनि तु पर्शुका॥
अङ्गं प्रतीकोऽवयवः अपघनोऽथ कलेवरम्।
गात्रं वपुः संहननं शरीरं वर्ष्म विग्रहः॥
कायो देहः क्लीबपुंसोः स्त्रियां मूर्तिस्तनुस्तनूः।
पादाग्रं प्रपदं पादः पदङ्घ्रिश्चरणोऽस्त्रियाम्॥
तद् ग्रन्थी घुटिके गुल्फौ पुमान्पार्ष्णिस्तयोरधः।
जङ्घा तु प्रसृता जानु ऊरुपर्वाष्ठीवदस्त्रियाम्॥
सक्थि क्लीबे पुमानूरुस्तत्संधिः पुंसि वङ्क्षणः।
गुदं त्वपानं पायुर्ना बस्तिर्नाभेरधो द्वयोः॥
कटो ना श्रोणिफलकं कटिः श्रोणिः ककुद्मती।
पश्चान्नितम्बः स्त्रीकट्याः क्लीबे तु जघनं पुरः॥
कूपकौ तु नितम्बस्थौ द्वयहीने ककुन्दरे।
स्त्रियाम् स्फिचौ कटिप्रोथावुपस्थो वक्ष्यमाणयोः॥
भगं योनिर्द्वयोः शिश्नः मेढ्रो मेहनशेफसी।
मुष्कोऽण्डकोशो वृषणः पृष्ठवंशाधरे त्रिकम्॥
पिचण्डकुक्षी जठरोदरं तुन्दं स्तनौ कुचौ।
चूचुकं तु कुचाग्रं स्यात् नना क्रोडं भुजान्तरम्॥
उरो वत्सं च वक्षश्च पृष्ठं तु चरमं तनोः।
स्कन्धो भुजशिरोंसोऽस्त्री संधी तस्यैव जत्रुणी॥
बाहुमूले उभे कक्षौ पार्श्वमस्त्री तयोरधः।
मध्यमं चावलग्नं च मध्योऽस्त्री द्वौ परौ द्वयोः॥
भुजबाहू प्रवेष्टो दोः स्यात्कफोणिस्तु कूर्परः।
अस्योपरि प्रगण्डः स्यात् प्रकोष्ठस्तस्य चाप्यधः॥
मणीबन्धादाकनिष्ठं करस्य करभो बहिः।
पञ्चशाखः शयः पाणिः तर्जनी स्यात्प्रदेशिनी॥
अङ्गुल्यः करशाखाः स्युः पुंस्यङ्गुष्ठः प्रदेशिनी।
मध्यमाऽनामिका चापि कनिष्ठा चेति ताः क्रमात्॥
पुनर्भवः कररुहः नखोऽस्त्री नखरोऽस्त्रियाम्।
प्रादेशतालगोकर्णास्तर्जन्यादियुते तते॥
अङ्गुष्ठे सकनिष्ठे स्यात् वितस्तिर्द्वादशाङ्गुलः।
पाणौ चपेटप्रतलप्रहस्ता विस्तृताङ्गुलौ॥
द्वौ संहतौ संहतलः प्रतलौ वामदक्षिणौ।
पाणिर्निकुब्जः प्रसृतिः तौ युतावञ्जलिः पुमान्॥
प्रकोष्ठे विस्तृतकरे हस्तो मुष्ट्या तु बद्धया।
स रत्निः स्यादरत्निस्तु निष्कनिष्ठेन मुष्टिना॥
व्यामो बाह्वोः सकरयोः ततयोस्तिर्यगनन्तरम्।
ऊर्ध्वविस्तृतदोः पाणि नृमाने पौरुषं त्रिषु॥
कण्ठो गलोऽथ ग्रीवायां शिरोधिः कन्धरेत्यपि।
कम्बुग्रीवा त्रिरेखा सा अवटुर्घाटा कृकाटिका॥
वक्त्रास्ये वदनं तुण्डमाननं लपनं मुखम्।
क्लीबे घ्राणं गन्धवहा घोणा नासा च नासिका॥
ओष्ठाधरौ तु रदनच्छदौ दशनवाससी।
अधस्ताच्चिबुकं गण्डौ कपोलौ तत्परा हनुः॥
रदना दशना दन्ता रदास्तालु तु काकुदम्।
रसज्ञा रसना जिह्वा प्रान्तावोष्ठस्य सृक्किणी॥
ललाटमलिकं गोधिः ऊर्ध्वे दृग्भ्यां भ्रुवौ स्त्रियौ।
कूर्चमस्त्री भ्रुवोर्मध्यं तारकाक्ष्णः कनीनिका॥
लोचनं नयनं नेत्रम् ईक्षणं चक्षुरक्षिणी।
दृग्दृष्टी चास्रु नेत्राम्बु रोदनं चास्रमश्रु च॥
अपाङ्गौ नेत्रयोरन्तौ कटाक्षोऽपाङ्गदर्शने।
कर्णशब्दग्रहौ श्रोत्रं श्रुतिः स्त्री श्रवणं श्रवः॥
उत्तमाङ्गं शिरः शीर्षं मूर्धा ना मस्तकोऽस्त्रियाम्।
चिकुरः कुन्तलो वालः कचः केशः शिरोरुहः॥
तद्वृन्दे कैशिकं कैश्यम् अलकाश्चूर्णकुन्तलाः।
ते ललाटे भ्रमरकाः काकपक्षः शिखण्डकः॥
कबरी केशवेशोऽथ धम्मिल्लः संयताः कचाः।
शिखा चूडा केशपाशी व्रतिनस्तु सटा जटा॥
वेणी प्रवेणी शीर्षण्यशिरस्यौ विशदे कचे।
पाशः पक्षश्च हस्तश्च कलापार्थाः कचात्परे॥
तनूरुहं रोम लोम तद्वृद्धौ श्मश्रु पुम्मुखे।
आकल्पवेषौ नेपथ्यं प्रतिकर्म प्रसाधनम्॥
दशैते त्रिष्वलंकर्ता अलंकरिष्णुश्च मण्डितः।
प्रसाधितोऽलंकृतश्च भूषितश्च परिष्कृतः॥
विभ्राड्भ्राजिष्णुरोचिष्णू भूषणं स्यादलंक्रिया।
अलंकारस्त्वाभरणं परिष्कारो विभूषणम्॥
मण्डनं चाथ मुकुटं किरीटं पुंनपुंसकम्।
चूडामणिः शिरोरत्नं तरलो हारमध्यगः॥
वालपाश्या पारितथ्या पत्रपाश्या ललाटिका।
कर्णिका तालपत्रं स्यात् कुण्डलं कर्णवेष्टनम्॥
ग्रैवेयकं कण्ठभूषा लम्बनं स्याल्ललन्तिका।
स्वर्णैः प्रालम्बिकाऽथोरःसूत्रिका मौक्तिकैः कृता॥
हारो मुक्तावली देवच्छन्दोऽसौ शतयष्टिका।
हारभेदा यष्टिभेदाद्गुच्छगुच्छार्धगोस्तनाः॥
अर्धहारो माणवकः एकावल्येकयष्टिका।
सैव नक्षत्रमाला स्यात् सप्तविंशतिमौक्तिकैः॥
आवापकः पारिहार्यः कटको वलयोऽस्त्रियाम्।
केयूरमङ्गदं तुल्ये अङ्गुलीयकमूर्मिका॥
साक्षराङ्गुलिमुद्रा स्यात् कङ्कणं करभूषणम्।
स्त्रीकट्यां मेखला काञ्ची सप्तकी रशना तथा॥
क्लीबे सारसनं चाथ पुंस्कट्यां श‍ृङ्खलं त्रिषु।
पादाङ्गदं तुलाकोटिः मञ्जीरो नूपुरोऽस्त्रियाम्॥
हंसकः पादकटकः किङ्किणी क्षुद्रघण्टिका।
त्वक्फलकृमिरोमाणि वस्त्रयोनिर्दश त्रिषु॥
वाल्कं क्षौमादि फालं तु कार्पासं बादरं च तत्।
कौशेयं कृमिकोशोत्थं राङ्कवं मृगरोमजम्॥
अनाहतं निष्प्रवाणि तन्त्रकं च नवाम्बरम्।
तस्यादुद्गमनीयं यत् धौतयोर्वस्त्रयोर्युगम्॥
पत्रोर्णं धौतकौशेयं बहुमूल्यं महाधनम्।
क्षौमं दुकूलं स्याद्द्वे तु निवीतं प्रावृतं त्रिषु॥
स्त्रियां बहुत्वे वस्त्रस्य दशाः स्युर्वस्तयोर्द्वयोः।
दैर्घ्यमायाम आरोहः परिणाहो विशालता॥
पटच्चरं जीर्णवस्त्रं समौ नक्तककर्पटौ।
वस्त्रमाच्छादनं वासः चैलं वसनमंशुकम्॥
सुचेलकः पटोऽस्त्री स्यात् वराशिः स्थूलशाटकः।
निचोलः प्रच्छदपटः समौ रल्लककम्बलौ॥
अन्तरीयोपसंव्यानपरिधानान्यधोंशुके।
द्वौ प्रावारोत्तरासङ्गौ समौ बृहतिका तथा॥
संव्यानमुत्तरीयं च चोलः कूर्पासकोऽस्त्रियाम्।
नीशारः स्यात्प्रावरणे हिमाऽनिलनिवारणे॥
अर्धोरुकं वरस्त्रीणां स्याच्छण्डातकमस्त्रियाम्।
स्यात् त्रिष्वाप्रपदीनं तत् प्राप्नोत्याप्रपदं हि यत्॥
अस्त्री वितानमुल्लोचः दूष्याद्यं वस्त्रवेश्मनि।
प्रतिसीरा जवनिका स्यात्तिरस्करिणी च सा॥
परिकर्माङ्गसंस्कारः स्यान्मार्ष्टिर्मार्जना मृजा।
उद्वर्तनोत्सादने द्वे समे आप्लाव आप्लवः॥
स्नानं चर्चा तु चार्चिक्यं स्थासकोऽथ प्रबोधनम्।
अनुबोधः पत्रलेखा पत्राङ्गुलिरिमे समे॥
तमालपत्रतिलक चित्रकाणि विशेषकम्।
द्वितीयं च तुरीयं च न स्त्रियामथ कुङ्कुमम्॥
काश्मीरजन्माग्निशिखं वरं बाह्लीकपीतने।
रक्तसंकोचपिशुनं धीरं लोहितचन्दनम्॥
लाक्षा राक्षा जतु क्लीबे यावोऽलक्तो द्रुमामयः।
लवङ्गं देवकुसुमं श्रीसंज्ञमथ जायकम्॥
कालीयकं च कालानुसार्यं चाथ समार्थकम्।
वंशिकागुरुराजार्हलोहकृमिजजोङ्गकम्॥
कालागुर्वगुरु स्यात्तु मङ्गल्या मल्लिगन्धि यत्।
यक्षधूपः सर्जरसः रालसर्वरसावपि॥
बहुरूपोऽप्यथ वृकधूपकृत्रिमधूपकौ।
तुरुष्कः पिण्डकः सिह्लः यावनोऽप्यथ पायसः॥
श्रीवासो वृकधूपोऽपि श्रीवेष्टसरलद्रवौ।
मृगनाभिर्मृगमदः कस्तूरी चाथ कोलकम्॥
कङ्कोलकं कोशफलम् अथ कर्पूरमस्त्रियाम्।
घनसारश्चन्द्रसंज्ञः सिताभ्रो हिमवालुका॥
गन्धसारो मलयजः भद्रश्रीश्चन्दनोऽस्त्रियाम्।
तैलपर्णिकगोशीर्षे हरिचन्दनमस्त्रियाम्॥
तिलपर्णी तु पत्राङ्गं रञ्जनं रक्तचन्दनम्।
कुचन्दनं चाथ जाती कोशजातीफले समे॥
कर्पूरागरुकस्तूरीकक्कोलैर्यक्षकर्दमः।
गात्रानुलेपनी वर्तिः वर्णकं स्याद्विलेपनम्॥
चूर्णानि वासयोगाः स्युर्भावितं वासितं त्रिषु।
संस्कारो गन्धमाल्याद्यैर्यः स्यात्तदधिवासनम्॥
माल्यं मालास्रजौ मूर्ध्नि केशमध्ये तु गर्भकः।
प्रभ्रष्तकं शिखालम्बि पुरोन्यस्तं ललामकम्॥
प्रालम्बमृजुलम्बि स्यात् कण्ठाद्वैकक्षिकं तु तत्।
यत्तिर्यक् क्षिप्तमुरसि शिखास्वापीडशेखरौ॥
रचना स्यात्परिस्यन्दः आभोगः परिपूर्णता।
उपधानं तूपबर्हः शय्यायां शयनीयवत्॥
शयनं मञ्चपर्यङ्कपल्यङ्काः खट्व्या समाः।
गेन्दुकः कन्दुको दीपः प्रदीपः पीठमासनम्॥
समुद्गकः संपुटकः प्रतिग्राहः पतद्ग्रहः।
प्रसाधनी कङ्कतिका पिष्टातः पटवासकः॥
दर्पणे मुकुरादर्शौ व्यजनं तालवृन्तकम्॥
॥इति मनुष्यवर्गः॥

नारदव्याससंवादः भगवद्गुणकर्मवर्णनस्य महत्त्वं देवर्षिनारदकर्तृकं स्वकीयपूर्वजन्मवृत्तान्ताकथनं च - The conversation between Maharshi Vyasa and Dhevarshi Narada, ...
महर्षेर्व्यासस्यापरितोषः तदाश्रमे देवर्शिनारदस्यागमनं च - Maharshi Vyasa's ashrama visited by Dhevarshi Narada. ...
भगवतचतुर्विंशत्यवताराणां संक्षेपतो वर्णनम् - A brief intro about the 24 various incarnation of God Vishnu. ...
सूतप्रतिवचनम् - भगवत्कथायाः श्रवणकीर्तनयोर्निःश्रेयसकरत्वं भवगवद्भक्तेर्माहात्म्यवर्णनं च - The answer given by Suta Maharishi - The ...
Loading story text...
https://www.krishnadhevalipi.org/wp-content/uploads/stories/txt/ra_story_words1915.txt
https://www.krishnadhevalipi.org/wp-content/uploads/stories/json/ra_story1915.json

Details of update

last updated - 23rd May, 2026