॥अथ नरकवर्गः॥
स्यान्नारकस्तु नरकः निरयो दुर्गतिः स्त्रियाम्।
तद्भेदास्तपनाऽवीचिमहारौरवरौरवाः॥
संघातः कालसूत्रं चेत् याद्याः सत्त्वास्तु नारकाः।
प्रेता वैतरणी सिन्धुः स्यादलक्ष्मीस्तु निरृतिः॥
विष्टिराजूः कारणा तु यातना तीव्रवेदना।
पीडा बाधा व्यथा दुःखम् आमनस्यं प्रसूतिजम्॥
स्यात्कष्टं कृच्छ्रमाभीलं त्रिष्वेषां भेद्यगामि यत्॥
॥इति नरकवर्गः॥