॥ वाग् यज्ञेन कल्पताम् ॥

See Listen and Chant

These Chanting are to Inspire You for, to Practice and Learn to Chanting Bhagavat Stotram. The occasional drift while highlighting is negligible and unavoidable because of the chanting styles. Some Chanting are collected from Internet, for educative and guided chanting practice and not to infringe any Copyrights.

Ready... Play...

Amara Kosha Naatya Varga

Amara Kosha is one of the most popular Sanaskrit kosha which is by-heart memorized and this page will facilitate you to learn, listen, see and chant. There are about 25 Varga and each varga is shown in individual page.

॥ अमरकोषः ॥

॥अथ नाट्यवर्गः॥
निषादर्षभगान्धारषड्जमध्यमधैवताः।
पञ्चमश्चेत्यमी सप्त तन्त्रीकण्ठोत्थिताः स्वराः॥
काकली तु कले सूक्ष्मे ध्वनौ तु मधुराऽस्फुटे।
कलो मन्द्रस्तु गम्भीरे तारोऽत्युच्चैस्त्रयस्त्रिषु॥
नृणामुरसि मध्यस्थो द्वाविंशतिविधो ध्वनिः।
स मन्द्रः कण्ठमध्यस्थः तारः शिरसि गीयते॥
समन्वितलयस्त्वेकतालो वीणा तु वल्लकी।
विपञ्ची सा तु तन्त्रीभिः सप्तभिः परिवादिनी॥
ततं वीणाऽऽदिकं वाद्यम् आनद्धं मुरजाऽऽदिकम्।
वंशाऽऽदिकं तु सुषिरं कांस्यतालाऽऽदिकं घनम्॥
चतुर्विधमिदं वाद्यं वादित्राऽऽतोद्यनामकम्।
मृदङ्गा मुरजा भेदाः त्वङ्क्याऽऽलिङ्ग्योर्ध्वकास्त्रयः॥
स्याद् यशःपटहो ढक्का भेरी स्त्री दुन्दुभिः पुमान्।
आनकः पटहोऽस्त्री स्यात् कोणो वीणाऽऽदिवादनम्॥
वीणादण्डः प्रवालः स्यात् ककुभस्तु प्रसेवकः।
कोलम्बकस्तु कायोऽस्याः उपनाहो निबन्धनम्॥
वाद्यप्रभेदा डमरुमड्डुडिण्डिमझर्झराः।
मर्दलः पणवोऽन्ये च नर्तकीलासिके समे॥
विलम्बितं द्रुतं मध्यं तत्त्वमोघो घनं क्रमात्।
तालः कालक्रियामानं लयः साम्यमथाऽस्त्रियाम्॥
ताण्डवं नटनं नाट्यं लास्यं नृत्यं च नर्तने।
तौर्यत्रिकं नृत्यगीतवाद्यं नाट्यमिदं त्रयम्॥
भ्रकुंसश्च भ्रुकुंसश्च भ्रूकुंसश्चेति नर्तकः।
स्त्रीवेषधारी पुरुषो नाट्योक्तौ गणिकाज्जुका॥
भगिनीपतिरावुत्तः भावो विद्वानथाऽऽवुकः।
जनको युवराजस्तु कुमारो भर्तृदारकः॥
राजा भट्टारको देवः तत्सुता भर्तृदारिका।
देवी कृताभिषेकायाम् इतरासु तु भट्टिनी॥
अब्रह्मण्यमवध्योक्तौ राजश्यालस्तु राष्ट्रियः।
अम्बा माताऽथ बाला स्याद् वासूरार्यस्तु मारिषः॥
अत्तिका भगिनी ज्येष्ठा निष्ठानिर्वहणे समे।
हण्डे हञ्जे हलाऽऽह्वानं नीचां चेटीं सखीं प्रति॥
अङ्गहारोऽङ्गविक्षेपः व्यञ्जकाऽभिनयौ समौ।
निर्वृत्ते त्वङ्गसत्त्वाभ्यां द्वे त्रिष्वाङ्गिकसात्त्विके॥
श‍ृङ्गारवीरकरुणाऽद्भुतहास्यभयानकाः।
बीभत्सरौद्रौ च रसाः श‍ृङ्गारः शुचिरुज्ज्वलः॥
उत्साहवर्धनो वीरः कारुण्यं करुणा घृणा।
कृपा दयाऽनुकम्पा स्याद् अनुक्रोशोऽप्यथो हसः॥
हासो हास्यं च बीभत्सं विकृतं त्रिष्विदं द्वयम्।
विस्मयोऽद्भुतमाश्चर्यं चित्रमप्यथ भैरवम्॥
दारुणं भीषणं भीष्मं घोरं भीमं भयानकम्।
भयङ्करं प्रतिभयं रौद्रं तूग्रममी त्रिषु॥
चतुर्दश दरस्त्रासः भीतिर्भीः साध्वसं भयम्।
विकारो मानसो भावः अनुभावो भावबोधकः॥
गर्वोऽभिमानोऽहङ्कारः मानश्चित्तसमुन्नतिः।
दर्पोऽवलोकोऽवष्टम्भः चित्तोद्रेकः स्मयो मदः॥
अनादरः परिभवः परीभावस्तिरस्क्रिया।
रीढाऽवमाननाऽवज्ञाऽवहेलनमसूर्क्षणम्॥
मन्दाक्षं ह्रीस्त्रपा व्रीडा लज्जा साऽपत्रपाऽन्यतः।
क्षान्तिस्तितिक्षाऽभिध्या तु परस्य विषये स्पृहा॥
अक्षान्तिरीर्ष्याऽसूया तु दोषाऽऽरोपो गुणेष्वपि।
वैरं विरोधो विद्वेषः मन्युशोकौ तु शुक् स्त्रियाम्॥
पश्चात्तापोऽनुतापश्च विप्रतीसार इत्यपि।
कोपक्रोधाऽमर्षरोषप्रतिघा रुट्क्रुधौ स्त्रियौ॥
शुचौ तु चरिते शीलम् उन्मादश्चित्तविभ्रमः।
प्रेमा ना प्रियता हार्दं प्रेम स्नेहोऽथ दोहदम्॥
इच्छा काङ्क्षा स्पृहेहा तृट् वाञ्छा लिप्सा मनोरथः।
कामोऽभिलाषस्तर्षश्च सोऽत्यर्थं लालसा द्वयोः॥
उपाधिर्ना धर्मचिन्ता पुंस्याधिर्मानसी व्यथा।
स्याच्चिन्ता स्मृतिराध्यानम् उत्कण्ठोत्कलिके समे॥
उत्साहोऽध्यवसायः स्यात् स वीर्यमतिशक्तिभाक्।
कपटोऽस्त्री व्याजदम्भः उपधयश्छद्मकैतवे॥
कुसृतिर्निकृतिः शाठ्यं प्रमादोऽनवधानता।
कौतूहलं कौतुकं च कुतुकं च कुतूहलम्॥
स्त्रीणां विलासबिब्बोकविभ्रमा ललितं तथा।
हेला लीलेत्यमी हावाः क्रियाः श‍ृङ्गारभावजाः॥
द्रवकेलिपरीहासाः क्रीडा लीला च नर्म च।
व्याजोऽपदेशो लक्ष्यं च क्रीडा खेला च कूर्दनम्॥
घर्मो निदाघः स्वेदः स्यात् प्रलयो नष्टचेष्टता।
अवहित्थाकारगुप्तिः समौ संवेगसंभ्रमौ॥
स्यादाच्छुरितकं हासः सोत्प्रासः स मनाक् स्मितम्।
मध्यमः स्याद्विहसितं रोमाञ्चो रोमहर्षणम्॥
क्रन्दितं रुदितं क्रुष्टं जृम्भस्तु त्रिषु जृम्भणम्।
विप्रलम्भो विसंवादः रिङ्गणं स्खलनं समे॥
स्यान्निद्रा शयनं स्वापः स्वप्नः संवेश इत्यपि।
तन्द्री प्रमीला भ्रकुटिः भ्रुकुटिर्भ्रूकुटिः स्त्रियाम्॥
अदृष्टिः स्यादसौम्येऽक्ष्णि संसिद्धिप्रकृती त्विमे।
स्वरूपं च स्वभावश्च निसर्गश्चाथ वेपथुः॥
कम्पोऽथ क्षण उद्धर्षः मह उद्धव उत्सवः॥
॥इति नाट्यवर्गः॥

प्रियव्रतचरित्रम् । The historical story of Priyavrata. ...
गृहात्प्रव्रजितानां प्रचेतसां नारदोपदेशान्मुक्तिः । Prachetas who left home, obtained liberation from the discourse of Narada ...
दशप्रचेतसां भगवद्दर्शानं वरप्राप्तिश्च तेभ्यो मारिषागर्भाद्दक्षोत्पत्तिश्च । Sighting of Lord Vishnu by Dashaprachetas and getting boon, ...
पुरञ्जनोपाख्यानस्य तात्पर्यं नारदोपदेशः प्राचीनबर्हिषो मुक्तिश्च । The inner meaniing of Puranjana discourse and advise of ...
Loading story text...
https://www.krishnadhevalipi.org/wp-content/uploads/stories/txt/ra_story_words1906.txt
https://www.krishnadhevalipi.org/wp-content/uploads/stories/json/ra_story1906.json

Details of update

last updated - 23rd May, 2026