॥ वाग् यज्ञेन कल्पताम् ॥

See Listen and Chant

These Chanting are to Inspire You for, to Practice and Learn to Chanting Bhagavat Stotram. The occasional drift while highlighting is negligible and unavoidable because of the chanting styles. Some Chanting are collected from Internet, for educative and guided chanting practice and not to infringe any Copyrights.

Ready... Play...

Amara Kosha Dhig Varga

Amara Kosha is one of the most popular Sanaskrit kosha which is by-heart memorized and this page will facilitate you to learn, listen, see and chant. There are about 25 Varga and each varga is shown in individual page.

॥ अमरकोषः ॥

॥अथ दिग्वर्गः॥
दिशस्तु ककुभः काष्ठा आशाश्च हरितश्च ताः।
प्राच्यवाचीप्रतीच्यस्ताः पूर्वदक्षिणपश्चिमाः॥
उत्तरादिगुदीची स्याद् दिश्यं तु त्रिषु दिग्भवे।
अवाग्भवमवाचीनम् उदीचीनमुदग्भवम्॥
प्रत्यग्भवं प्रतीचीनं प्राचीनं प्राग्भवं त्रिषु।
इन्द्रो वह्निः पितृपतिः नैरृतो वरुणो मरुत्॥
कुबेर ईशः पतयः पूर्वाऽऽदीनां दिशां क्रमात्।
रविः शुक्रो महीसूनुः स्वर्भानुर्भानुजो विधुः॥
बुधो बृहस्पतिश्चेति दिशां चैव तथा ग्रहाः।
ऐरावतः पुण्डरीकः वामनः कुमुदोऽञ्जनः॥
पुष्पदन्तः सार्वभौमः सुप्रतीकश्च दिग्गजाः।
करिण्योऽभ्रमुकपिला पिङ्गलाऽनुपमाः क्रमात्॥
ताम्रकर्णी शुभ्रदन्ती चाऽङ्गना चाऽञ्जनावती।
क्लीबाऽव्ययं त्वपदिशं दिशोर्मध्ये विदिक् स्त्रियाम्॥
अभ्यन्तरं त्वन्तरालं चक्रवालं तु मण्डलम्।
अभ्रं मेघो वारिवाहः स्तनयित्नुर्बलाहकः॥
धाराधरो जलधरः तडित्वान् वारिदोऽम्बुभृत्।
घनजीमूतमुदिरजलमुग्धूमयोनयः॥
कादम्बिनी मेघमाला त्रिषु मेघभवेऽभ्रियम्।
स्तनितं गर्जितं मेघनिर्घोषे रसिताऽदि च॥
शम्पा शतह्रदाह्रादिन्यैरावत्यः क्षणप्रभा।
तडित्सौदामनी विद्युच्चञ्चला चपला अपि॥
स्फूर्जथुर्वज्रनिर्घोषः मेघज्योतिरिरंमदः।
इन्द्रायुधं शक्रधनुः तदेव ऋजुरोहितम्॥
वृष्टिर्वर्षं तद्विघाते अवग्राहाऽवग्रहौ समौ।
धारासम्पात आसारः शीकरोम्बुकणाः स्मृताः॥
वर्षोपलस्तु करका मेघच्छन्नेऽह्नि दुर्दिनम्।
अन्तर्धा व्यवधा पुंसि त्वन्तर्धिरपवारणम्॥
अपिधानतिरोधानपिधानाऽऽच्छादनानि च।
हिमांशुश्चन्द्रमाश्चन्द्रः इन्दुः कुमुदबान्धवः॥
विधुः सुधांशुः शुभ्रांशुः ओषधीशो निशापतिः।
अब्जो जैवातृकः सोमः ग्लौर्मृगाङ्कः कलानिधिः॥
द्विजराजः शशधरः नक्षत्रेशः क्षपाकरः।
कला तु षोडशो भागः बिम्बोऽस्त्री मण्डलं त्रिषु॥
भित्तं शकलखण्डे वा पुंस्यर्धोऽर्धं समेंशके।
चन्द्रिका कौमुदी ज्योत्स्ना प्रसादस्तु प्रसन्नता॥
कलङ्काङ्कौ लाञ्छनं च चिह्नं लक्ष्म च लक्षणम्।
सुषमा परमा शोभा शोभा कान्तिर्द्युतिश्छविः॥
अवश्यायस्तु नीहारः तुषारस्तुहिनं हिमम्।
प्रालेयं मिहिका चाऽथ हिमानी हिमसंहतिः॥
शीतं गुणे तद्वदर्थाः सुषीमः शिशिरो जडः।
तुषारः शीतलः शीतः हिमः सप्ताऽन्यलिङ्गकाः॥
ध्रुव औत्तानपादिः स्यात् अगस्त्यः कुम्भसम्भवः।
मैत्रावरुणिरस्यैव लोपामुद्रा सधर्मिणी॥
नक्षत्रमृक्षं भं तारा तारकाऽप्युडु वा स्त्रियाम्।
दाक्षायिण्योऽश्विनीत्यादितारा अश्वयुगश्विनी॥
राधाविशाखा पुष्ये तु सिध्यतिष्यौ श्रविष्ठया।
समा धनिष्ठाः स्युः प्रोष्ठपदा भाद्रपदाः स्त्रियः॥
मृगशीर्षं मृगशिरः तस्मिन्नेवाऽऽग्रहायणी।
इल्वलास्तच्छिरोदेशे तारका निवसन्ति याः॥
बृहस्पतिः सुराचार्यः गीष्पतिर्धिषणो गुरुः।
जीव आङ्गिरसो वाचस्पतिश्चित्रशिखण्डिजः॥
शुक्रो दैत्यगुरुः काव्यः उशना भार्गवः कविः।
अङ्गारकः कुजो भौमः लोहिताङ्गो महीसुतः॥
रौहिणेयो बुधः सौम्यः समौ सौरिशनैश्चरौ।
तमस्तु राहुः स्वर्भानुः सैंहिकेयो विधुन्तुदः॥
सप्तर्षयो मरीच्यत्रिमुखाश्चित्रशिखण्डिनः।
राशीनामुदयो लग्नं ते तु मेषवृषादयः॥
सूरसूर्यार्यमादित्यद्वादशात्मदिवाकराः।
भास्कराहः करब्रध्नप्रभाकरविभाकराः॥
भास्वद्विवस्वत्सप्ताश्वहरिदश्वोष्णरश्मयः।
विकर्तनार्कमार्तण्डमिहिरारुणपूषणः॥
द्युमणिस्तरणिर्मित्रः चित्रभानुर्विरोचनः।
विभावसुर्ग्रहपतिः त्विषांपतिरहर्पतिः॥
भानुर्हंसः सहस्रांशुः तपनः सविता रविः।
पद्माक्षस्तेजसांराशिः छायानाथस्तमिस्रहा॥
कर्मसाक्षी जगच्चक्षुः लोकबन्धुस्त्रयीतनुः।
प्रद्योतनो दिनमणिः खद्योतो लोकबान्धवः॥
इनो भगो धामनिधिः चांशुमाल्यब्जिनीपतिः।
माठरः पिङ्गलो दण्डः चण्डांशोः पारिपार्श्वकाः॥
सूरसूतोऽरुणोऽनूरुः काश्यपिर्गरुडाग्रजः।
परिवेषस्तुपरिधिः उपसूर्यकमण्डले॥
किरणोस्रमयूखांशुगभस्तिघृणिरश्मयः।
भानुः करो मरीचिः स्त्रीपुंसयोर्दीधितिः स्त्रियाम्॥
स्युः प्रभारुग्रुचिस्त्विड्भाभाश्छविद्युतिदीप्तयः।
रोचिः शोचिरुभे क्लीबे प्रकाशो द्योत आतपः॥
कोष्णं कवोष्णं मन्दोष्णं कदुष्णं त्रिषु तद्वति।
तिग्मं तीक्ष्णं खरं तद्वत् मृगतृष्णा मरीचिका॥
॥इति दिग्वर्गः॥

नारदव्याससंवादः भगवद्गुणकर्मवर्णनस्य महत्त्वं देवर्षिनारदकर्तृकं स्वकीयपूर्वजन्मवृत्तान्ताकथनं च - The conversation between Maharshi Vyasa and Dhevarshi Narada, ...
महर्षेर्व्यासस्यापरितोषः तदाश्रमे देवर्शिनारदस्यागमनं च - Maharshi Vyasa's ashrama visited by Dhevarshi Narada. ...
भगवतचतुर्विंशत्यवताराणां संक्षेपतो वर्णनम् - A brief intro about the 24 various incarnation of God Vishnu. ...
सूतप्रतिवचनम् - भगवत्कथायाः श्रवणकीर्तनयोर्निःश्रेयसकरत्वं भवगवद्भक्तेर्माहात्म्यवर्णनं च - The answer given by Suta Maharishi - The ...
Loading story text...
https://www.krishnadhevalipi.org/wp-content/uploads/stories/txt/ra_story_words1902.txt
https://www.krishnadhevalipi.org/wp-content/uploads/stories/json/ra_story1902.json

Details of update

last updated - 23rd May, 2026