॥ वाग् यज्ञेन कल्पताम् ॥

Read Aloud Sanskrit

As I read story, you can choose your language script ... Select a part and read aloud also ... Enjoy learning Sanskrit ...
Ready... Play...

King Ambarisha

King Ambarisha is well known for his devotion to Bhagavan Vishnu. In some Puranam this story of Ambarisha is available to highlight the effect of Ekadashi Vrata. Even the powerful Rishi Durvasa had to take shelter under Ambarisha, when he failed to save himself from Sudarshana Chakra …

अम्बरीषः

You can watch this Sanskrit Story Explanation in the Video below.

महाराजः अम्बरीषः श्रेष्ठः विष्णुभक्तः। अम्बरीषस्य भक्त्या तुष्टः विष्णुः तदीयरक्षणार्थं सुदर्शनचक्रं वररूपेण दत्तवान् आसीत्। कदाचित् अम्बरीषः आवर्षं व्रतम् आचरितवान्। व्रतस्य अन्तिमदिनत्रये उपवासं कृत्वा अन्तिमदिनस्य पूजां समाप्य यावत् भोजनार्थं सः उपविष्टवान् तावता दूर्वासाः तत्र आगतवान्। किञ्चित् तिष्ठतु। नद्यां स्नात्वा आगच्छामि इति उक्त्वा नदीं गतवान् च। बहुकालानन्तरम् अपि दूर्वासाः न प्रत्यागतवान्। शुभमुहूर्तः यावत् अतीतः न भवेत् ततः पूर्वम् एव उपवासव्रतं समापनीयम् इति उक्तवन्तः मुनयः अतिथयः च। गुरूणाम् आदेशानुसारम् अम्बरीषः उपवासव्रतस्य समापनार्थं साङ्केतिकरूपेण तीर्थं स्वीकृतवान्।

तत्समये दूर्वासाः तत्र आगतवान्। प्रवृत्तं सर्वं दृष्ट्वा महता कोपेन मम आगमनतः पूर्वम् उपवासव्रतं समापयन् भवान् मम अपमाननम् आचरितवान् इति उक्त्वा स्वजटया भूमिं ताडितवान्। तदा तत्र कश्चन राक्षसः उत्पन्नः। सः राक्षसः अम्बरीषं मारयितुम् उद्युक्तः। अम्बरीषः विष्णुचक्रं स्मृतवान्। तदा अपरक्षणे विष्णुचक्रं राक्षसं मारयित्वा दूर्वाससः समीपम् आगच्छत्। एतेन भीतः दूर्वासाः धावन् देवेन्द्रसमीपं गतवान्। देवेन्द्रः एतद्विषये असहायकतां प्रकटीकृतवान्। ततः धावितः दूर्वासाः ब्रह्मणः समीपं गत्वा निराशया पुनः धावन् शिवसमीपं गतवान्। शिवः अपि रक्षणदाने असहायः। अन्ते दूर्वासाः वैकुण्ठं गत्वा विष्णुपादौ शरणं गतवान्।

विष्णुः मन्दहासं प्रकटयन् सुदर्शनचक्रस्य उपयोगः अम्बरीषस्य अधीनः। सुदर्शनचक्रस्य कार्यं निरोद्धुम् अहम् अपि अशक्तः। अतः भवान् अम्बरीषम् एव शरणं प्रार्थयतु इति। अनन्योपायः दूर्वासाः अम्बरीषसमीपं गत्वा क्षमां प्रार्थितवान्। अम्बरीषः विष्णुं स्मरन् चक्रं प्रतिस्वीकृतवान्। दूर्वाससम् आदरातिथ्येन सत्कृतवान् च।

Source:
Sanskrit Chandamama
Month:
December
Year:
1985
Loading story text...
https://www.krishnadhevalipi.org/wp-content/uploads/stories/txt/ra_story_words007.txt
https://www.krishnadhevalipi.org/wp-content/uploads/stories/json/ra_story007.json

Details of update

last updated on - 22nd April, 2026

Be Informed!! Translation may have contextual mistakes!

Ready

महाराजः अम्बरीषः श्रेष्ठः विष्णुभक्तः। अम्बरीषस्य भक्त्या तुष्टः विष्णुः तदीयरक्षणार्थं सुदर्शनचक्रं वररूपेण दत्तवान् आसीत्। कदाचित् अम्बरीषः आवर्षं व्रतम् आचरितवान्। व्रतस्य अन्तिमदिनत्रये उपवासं कृत्वा अन्तिमदिनस्य पूजां समाप्य यावत् भोजनार्थं सः उपविष्टवान् तावता दूर्वासाः तत्र आगतवान्। किञ्चित् तिष्ठतु। नद्यां स्नात्वा आगच्छामि इति उक्त्वा नदीं गतवान् च। बहुकालानन्तरम् अपि दूर्वासाः न प्रत्यागतवान्। शुभमुहूर्तः यावत् अतीतः न भवेत् ततः पूर्वम् एव उपवासव्रतं समापनीयम् इति उक्तवन्तः मुनयः अतिथयः च। गुरूणाम् आदेशानुसारम् अम्बरीषः उपवासव्रतस्य समापनार्थं साङ्केतिकरूपेण तीर्थं स्वीकृतवान्।

तत्समये दूर्वासाः तत्र आगतवान्। प्रवृत्तं सर्वं दृष्ट्वा महता कोपेन मम आगमनतः पूर्वम् उपवासव्रतं समापयन् भवान् मम अपमाननम् आचरितवान् इति उक्त्वा स्वजटया भूमिं ताडितवान्। तदा तत्र कश्चन राक्षसः उत्पन्नः। सः राक्षसः अम्बरीषं मारयितुम् उद्युक्तः। अम्बरीषः विष्णुचक्रं स्मृतवान्। तदा अपरक्षणे विष्णुचक्रं राक्षसं मारयित्वा दूर्वाससः समीपम् आगच्छत्। एतेन भीतः दूर्वासाः धावन् देवेन्द्रसमीपं गतवान्। देवेन्द्रः एतद्विषये असहायकतां प्रकटीकृतवान्। ततः धावितः दूर्वासाः ब्रह्मणः समीपं गत्वा निराशया पुनः धावन् शिवसमीपं गतवान्। शिवः अपि रक्षणदाने असहायः। अन्ते दूर्वासाः वैकुण्ठं गत्वा विष्णुपादौ शरणं गतवान्।

विष्णुः मन्दहासं प्रकटयन् सुदर्शनचक्रस्य उपयोगः अम्बरीषस्य अधीनः। सुदर्शनचक्रस्य कार्यं निरोद्धुम् अहम् अपि अशक्तः। अतः भवान् अम्बरीषम् एव शरणं प्रार्थयतु इति। अनन्योपायः दूर्वासाः अम्बरीषसमीपं गत्वा क्षमां प्रार्थितवान्। अम्बरीषः विष्णुं स्मरन् चक्रं प्रतिस्वीकृतवान्। दूर्वाससम् आदरातिथ्येन सत्कृतवान् च।

Translation will appear here. Select a language to translate to …